पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
अलङ्कारसर्वस्वम्


पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते--तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते । तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्यवसानमिति निर्णयः। अलं-


तदेतत्पक्षद्वयमध्यादृष्टान्तोपदर्शनद्वारेणालंकारान्तरत्वमेव सिद्धान्तयितुमाह-तत्रेत्यादिना । संघटनाकृतमिति । एकत्रैव द्वयोर्बहूनां वालंकाराणां युगपद्विनिवेशनं संघटना, तया कृतम् । तदुत्थापितमित्यर्थः । चारुत्वान्तरमिति । एकैकालंकारनिबन्धनात्प्रकृतत्वाच्चारुत्वादन्यत्सातिशयमिति यावत् । उपलभ्यते । स्वसंवित्सिद्धतया साक्षात्क्रियत इत्यर्थः । तेनेति । चारुत्वान्तरोपलम्भेन । नहि विषयभूतालंकारातिशयमन्तरेणोपलम्भातिशयो भवितुमर्हतीति भावः । ननु शब्दार्थालंकाराणां संघटनामात्रेणैव कथमलंकारान्तरत्वमुक्तम् । भिन्नकक्ष्यत्वेनैषामेकबुद्धयुपारोहासंभवाच्चारुत्वान्तराभावात् । तेषां हि संघटितत्वेऽपि ‘अलंकारेषु चारुत्वं तद्वद्विदि विभिद्यते । यथैव साधु माधुर्यमिभुक्षीरगुणादिषु ।’ इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भिन्नत्वमेव न्याय्यम् । नापि लौकिकालंकारवदेतेषां संघटनाकृतं चारुवान्तरमुपलभ्यते । नहि मौक्तिकपद्मरागेन्द्रनीलादिवत्सचेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते । शब्दार्थयौर्भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीयत्वात् । असदेतत् । तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डुलादिषु न समताप्रत्ययः समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपालम्भात्, तथैव भिन्नकक्ष्याणामलंकाराणां संघटनाबलेन पूर्वापरैकीकारेणैकबुद्ध्यरोहादुपलभ्यत एव कश्चन संसर्गो नाम यस्य संसृष्टिसंकरव्यपदेशार्हत्वम् । अपि च रूपभेदेऽप्यविच्छेदादेकत्वम् । चित्रपत्रक’ इत्यादिनीत्या चित्रास्तरणादौ यथा स्वरूपस्य रूपान्तराद्वयावृत्तत्वेऽपि विच्छेदानवभासदकघटश्लिष्टाकारप्रत्ययः । चित्ररूपमप्येकमेव वस्तुरूपं भासते । तथैव भिन्नकक्ष्याणामप्यलंकाराणां संघटमानत्वेन प्रतीतावेकतावसाय इति युक्तमेव संसृष्टाद्यलंकारान्तरम् । इक्ष्वादीनां च माधुर्यस्य भेदेऽपि संमीलनायां पानकादिरसनिष्पत्तावुपलभ्यत एव कश्चिद्वैचित्र्यातिशयस्तद्वदेषामपीतेि युक्तमलंकारान्तरत्वम् । न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम् । एकत्रैवैकस्य द्वयोर्बहूनां वालंकाराणामवगमे यथायथमतिशयोत्कर्षस्य स्वसंवित्साक्षिकत्वेन वेद्यमानत्वात् । संघटमानत्वेन च प्रतिपत्तिरलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति । न तु कुलकादौ, विदूरतया तशास्तावत्याः प्ररोहासंभवात् । यदाहुः-वाक्यार्थभेदेऽप्येकश्लोकान्तर्गतत्वेनालंकारस्यालंकारान्तरसाहित्यं प्रतिभात्येव । अविदूरत्वाद्विभिन्न श्लोकगतत्वेन वाक्यभेदे व्यवहितत्वात्र भवति संसृष्टिः ।’ इति । कुलकादावप्यलंकाराणां वाक्यैकवाक्यतया यद्यविच्छेदेन प्रतिपति--


१. ‘संघट्टमानत्वेन च' ख. २. ‘संसृष्टाद्यलंकारत्वम्’ क. २५