पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
अलङ्कारसर्वस्वम्


करःउत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद्बाकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति । यतो न ब्रूमो विरोधमन्तरेण श्लेषो न भवतीति । किं तर्हयलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाधः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि न बाध्यत इति न कश्चिदोषः । एवमर्थालंकारसंकर उक्तः । शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा


राजति तटीयमभिहतदानवरासातिपातिसारावनदा ।
गजता च यूथमविरतदानवरा सातिपाति सार वनदा ।।


| अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गि | संकर इति । एतत्तु न सम्यगावर्जकम् । शब्दालंकारयोः शब्दवदुपकाार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी । यथोदाहृतं पूर्वम् ।

- यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो } ज्ञेयः। एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः । { यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः । यथा


न्याभिप्रायेणोक्तम् । स्वपक्षाभिप्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम् । अत्र च यथा न संकरालंकरस्तथा पूर्वमेवोपपादितम् । अत्र ह्युभयथाप्येक एवालंकारः । न चैकस्य संकरो युक्तः । तस्य द्विप्रभृतीनामलंकाराणां मिश्रत्वे संभवात् । अतश्चेति । विरोधगुणीभावेन श्लेषस्यैव समुत्थानात् । यत्तु ग्रन्थकृता स्वताश्रयेणैतदपि नोक्तम्, तत्रायमाशयः। यावता हि यत्रालंकारान्तरस्वरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम् । तथैवमपि सिद्धयतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वा भ्यनुज्ञानात्मप्रयोजनम् । तन्मध्य इति । श्लेषाद्वयतिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः । दोष इति । सावकाशत्वापत्तिरूपः। कैश्चिदिति । काव्यप्रकाशकारादिभिः। उदाहृतमिति । कुसुमसौरभेत्यादिना। यद्वेति। पक्षान्तरे । एकवाचकेति । य एव शब्दा यमकस्य वाचकास्त एव चित्रस्येति द्वितीय इत्यङ्गाङ्गिभावात् । साधकमिति । अनुकूलम् । न्यायप्राप्त इति। साधकबाधकप्रमाणाभावादेकस्यनिश्चयात् । संदेहमेयोपपा-