पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
अलङ्कारसर्वस्वम्


यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकम्, प्रातिकूल्यं बाधकम् । तत्र साधकं यथा

'प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥


अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम् । शंक रेऽपि तस्योपचरितस्य संभवात् । यथा वा--

‘एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि ।
संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ।


मातृगतत्वात् । संदेहोऽपि पर्यवसानेऽवश्यमेकतरपक्षाश्रयणम्, उत्तरकालं बाधकप्रत्ययोल्लासात् । इह च संदेहेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकारः स्यात्, तस्यैव वाक्यार्थत्वेन प्ररोहात् । वाक्यार्थीभाव एव त्वलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम् । न चोभयोरपि वाक्यार्थीभावो विप्रतिषेधात् । संदिग्धश्च वाक्यार्थो दोष इत्यविवादः । न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः । विरुद्धमुखेनोकण्ठाकारणाभावेऽपि प्रातिपन्ने तथापि ‘चेतः समुत्कण्ठते’ इत्युकण्ठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात् । अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेबोध इति विभावनाया एव वाक्यार्थीभावः । उत्तरोदाहरणं रूपकस्यैव निश्चयः । यतोऽत्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्तुल्यबलाद्विप्रतिषेधः । ततश्च / ‘विप्रतिषेधे परं कार्यम्’ इति परत्वाद्रूपकसमासप्रवृत्तिः । एतदेव रूपकस्य साधनं प्रमाणम् । अत एवात्र यदन्यैः ‘अबाधेन गतौ संभवन्त्यां बाधगतिरप्रामाणिका' इति न्यायाल्लक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम् । तदयुक्तम् । भवन्मते च समासां प्रायशो लक्षणप- " रत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्यबाधेन गतेरसंभवादुपमाया अपि नास्ति बाधकप्रमाणसद्भावः । अथोपमायां लक्षणा रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तु ल्यत्वमिति चेत्, नैतत् । एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात् । अयं हि बाधगतेरेव प्रतीयते तत्र तत्समास एव कार्य इत्याह--यत्र त्वित्यादि । एतदेव दर्शयति--तत्रेत्यादिना । न बाधकमिति । न पुनः साधकमपीत्यर्थः । बाधकाभावमात्रेण साधकत्वानुपपत्तेः । तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः । यथा वेति । पूर्वत्र संकरेऽयुपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्योदाहरणस्य पुनरुपादानम् । २६