पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
काव्यमाला ।


चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाः’ इति । उपमैवानेक प्रकारवैचित्र्येणानेकालङ्कारबीजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुप्तात्वभेदाचिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि साधारणधर्मस्य क्वचिदनुगामित


समग्र एवालंकारवर्गः संगृहीतः । तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः । रूपकव दित्यनेन परिणामोत्प्रेक्षादयः । किंतु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्यति-‘आरोपादभेदेऽध्यवसायः प्रकृष्यते’ इति । अतश्चाध्यवसायगर्भे ष्वलंकारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः । तत्राप्यभेदप्राधान्यस्यैव भावात्। अनयाप्युपमेयोपमादयः संगृहीताः । सामान्यमित्यभेदहेतुकम् । विशेष इति भेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम् । ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टयाशङ्कयाह-उपमैवेत्यादि । अने केऽलंकाराः साधर्म्याश्रयाः तत्रैवास्याजीव(बीज)त्वात् । उक्तमिति । ‘साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥' इत्यादिना । अतश्च किमस्माकं तदाविष्करणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किंचि दिति सूचितम् । तत्रापीति । चिरंतनोक्त पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधा रणधर्मस्ये । धर्मः पराश्रितः तस्य च तदतद्रामित्वात्साधारणत्वम् । तदेव चोप माद्युत्थाने निमित्तम् । स च ‘चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाष्यप्रक्रिया जाति गुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति । न चैतद्विरुध्यते । धर्मिधर्मभावस्याश्रया श्रयिभावेन भावात् । अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् । जात्याद्यात्मनो धर्मि णोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् । एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किं चिद्वाच्यम् । चतुष्टया एव शब्दानां प्रवृत्तेरुक्तत्वात् । ‘सदयं बुभुजे महाभुजः सहसो द्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥' इत्यादावुपमा नादी क्रियारूपत्वादेयजायतुं शक्यत्वात्तस्या एव च । समग्रविषयावगाहनसहिष्णुत्वात् । ननु जातेः साधारणधर्मत्वे तज्जातीयत्वात्तत्त्वं न स्यान्न तत्सदृश्यत्वमिति कथमुपमाङ्गत्व मस्याः स्यादिति चेत्, न । बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् । तत्र ह्यसकृन्निर्दे शाद्वयोर्हारनिर्झरादिकयोर्जात्योः शैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् । एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः । तत्र धर्मिणो जात्यादिरूपता यथा-‘घनोद्यानच्छायामिव मरुपथाद्दावदहनातुषाराम्भोवापीमिव विषविपाकादिव सु धाम् । प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विरहाल्लभेय त्वद्भक्तिं निरुपमरसां शंकर कदा ॥’ अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् । छाया यास्तु जातिरूपत्वाद्रुणत्वं नाशङ्कनीयम् । उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यम् । धर्माणां तु यथा-‘वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्र-


१. 'लुप्ताद्वयभेदात्’ क. २ . ‘अत्रासाधारण’ ख.


१. ‘धर्मत्वेऽपि' ख. २. ‘न सदृशत्वं' क. ३. ‘चैत्य' ख. ..."