पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
काव्यमाला ।


यथा—‘अहो कोपेऽपि कान्तं मुखम्’ इति । तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यत्वे यथा—‘अत्रानुगोदं’ इत्यादि ।

यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान्पातयन् ।
तेषां दुःसहकालदेहदहनप्रोतनेत्रानल
ज्वालालीभरभास्वरे स्मररिपावस्तं गतं कौतुकम् ॥'

इत्यादौ सदृशवस्त्वन्तरानुभावे : शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमे तत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेद प्राधान्येन कथ्यन्ते

अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ।


श्वार्थे । सादृश्यव्यतिरिक्त संस्कारादिनिमित्तम् । तत्रापीति । एवं स्थितेऽपि सती त्यर्थः । विभावाद्यागूरितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिविषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृति र्यथा—‘अहो कोपेऽपि कान्तं मुखम्’ इति । स्वशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम् ‘अ- त्रानुगोदं-' इत्यादौ । अत्र च यथा प्रेयोलंकारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् । क्वचिच सादृश्य निमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-‘यैर्दष्टोऽसि-' इत्यादि । वस्त्वत्र जयापीडदर्शनम् । वस्त्वन्तरं तु भगवलक्षणम्। अत्र त्वद्दर्शनमभिलषतां जनानां न त्वद्दर्शनावाप्तिरेवाभूद्यावतेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्वन्तरकरणम् । विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालंकार इत्याशङ्कयाह-करणस्येत्यादि । एतच्च गम्यगमकभावमाश्रि त्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि । एतदिति स्मरणम् । मतान्तर इत्यौद्भटे । यदुक्तम्-‘श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हे- तुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥’ इति । इह पुनर्गम्यगमकभावादनुभूयमानस्मर्य माणव्यवहारोऽपि विशिष्यत इति पृथगलंकारतयैतदुक्तम् । एतदुपसंहरन्नन्यदवतारयति तदेत इत्यादि । एत इत्युपमाद्याश्चत्वारोऽलंकाराः । संप्रतीति । भेदाभेदतुल्यत्वा श्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति -अभेदप्राधान्य इत्यादि । वस्तुत इति । न तु प्रतीतिः । सद्भाव


१. ‘यथा' क-पुस्तके नास्ति. ..