पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
काव्यमाला ।


‘किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ।।'
अत्र वक्रेण रूपणमहेतुकम् पीयूषेणाधरामृतस्य श्लिष्टशब्दं रूपणम् ।
‘विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्खीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुचैः क्रियाः ॥

अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् ।

‘यामि मनोवाकायैः शरणं करुणात्मकं जगन्नाथम् ।
जन्मजरामरणार्णवतरणतरण्डं हराङ्गियुगम् ।।'
‘पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो
भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः ।
सङ्कमत्रासताम्यन्मुरलपातयशोहंसनीलाम्बुवाह
खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।

अत्र क्ष्मासौविदल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव । इदं वैधर्म्येणापि दृश्यते । यथा


केवलपरम्परितम् । विद्वदित्यादिहंसरूपणामाहात्म्यान्मानसरूपणेति परम्परितम् । एवमर्ण वरूपणा तरण्डारोपस्य हेतुरिति परम्परितम् । पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति माला परम्परितम् । अनेकस्य तु यथा-‘श्रीः श्रीधरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिश्च गौरी । शक्राक्षिपद्माकरराजहंसी शची च वो यच्छतु मङ्गलानि ॥' अत्र बहूनामनेकारो पात्परम्परितमाला । एवमादय इति । परम्परितमप्येकदेशविवतत्येवंप्रकारा । सू चिता इति । एतच्च दर्शनादेव । ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते । तत्र सम स्तवस्तुविषयं यथा-विहडन्तोद्वदलउडं फुरन्तदन्ताकारबहलकेसरपअरम् । पहरिमच


१. ‘विघटदोष्ठदलपुटं स्फुरद्दन्ताकारषहलकेसरप्रकरम् । “ चन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्भारम् ॥' इति च्छाया.