पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।


सार्ध त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां
भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भःकणै ।।'


अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापङ्गवोत्प्रेक्षा इत्यपि स्थाप यिष्यते ‘अहं त्विन्दुं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपहृवारोपयोः पौर्वापर्वप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वपह्नवे यथा

‘ज्योत्स्राभस्मच्छुरणधवला विभ्रती तारकास्थी
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।’


क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि वपुःशब्दादिनिबन्धनं यथा

‘अमुष्मिलावण्यामृतसरसि नूनं मृगदृशः
समरः शर्वपुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपु ॥' इति ।


नोत्प्रेक्षेति । साध्यवसायाद्युत्प्रेक्षासामर्थ्यभावात् । वक्ष्यत इत्युत्प्रेक्षायाम् । तथा चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामर्थ्यभावे मन्येशब्दप्रयोगो वि तर्कमेव प्रतिपादयतीति । अतश्च ‘अवाप्तः प्रागल्भ्यं-' इत्यादावपक्षुत्युदाहरणत्वमभिदधतः समानेऽपि न्याये ‘नो मां प्रति तथा’ इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्तिरेवेति मन्यन्ते । तेषां पूर्वापरविचारकुशलानां किमभिदध्मः । एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रन्थविस्तरभयादस्मद्दर्शनदत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्राति - पद्येन न दूषितम् । एतस्मिन्निति.छलादिशब्दप्रतिपाद्ये । संभवमात्रं पुनर्दर्शयितुमेत दुदाहृतम् । वस्त्वन्तररूपताभिधायीति। वपुःशब्दस्य शरीरार्थाभिधायि

त्वात् । अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम् । तत्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं


१. ‘पक्षतया' ख: २. ‘अतिशयोक्ति' क. ।