पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
काव्यमाला ।


अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रति- पादनार्थं निबद्धः । यथा वा--

‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहूलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः ।

अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे सं- बन्धो यथा --

‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं स्फुटविद्रुमस्थम् ।
वा
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।

अत्र संभावनया संबन्धः । यथा वा

दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः
श्वासाः प्रेङ्खितदीप्रदीपकलिकाः पाण्डिम्नि मग्नं वपुः ।
किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥


त्वम् । संभावनयेति । न तु वस्तुतः । अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तर- माह-दाहोऽम्भ इत्यादि । वाशब्दः समुच्चयार्थः । अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथं पौर्वापर्ययादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम् । एवं च का र्यकारणविध्वंसस्यापि पद्यप्रकाराः । अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीका- रेण पूर्व व्याख्यातम् । तत्र कार्यकारणयोर्विपर्ययो यथा—‘एअत्तं अवअत्तं संकोअअरं मिअङ्क कान्तीइं । गहस्सप अरइन्दस्स कारणं भणइ सरस्स (3) ॥’ अत्रेन्दुकान्तेः सं कोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम् । अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिर्हे- तुत्वेन स्थिता । उतरे त्वर्घे सैव श्लिष्टशब्दनिबन्धना हेतुः । तथाभावोपनिबन्धश्चात्र व- क्रस्य लावण्यप्रकर्षप्रतिपादनार्थम्। क्रमविपर्ययो यथा--‘कुपितस्य प्रथममन्धकारी भ- वति विद्या ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः । आरम्भे ६ तपो गलति पञ्चस्वेदसलिलम् । पूर्वमयशः स्फुरत्यनन्तरमधर इति । अत्र कोषकार्ये विद्याभ्रुकुट्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः । तस्यैव सह- भावो यथा--(रइभवणाहि परिअणो मसणं मणिमेहला णिअम्याहिं । लवा हिअआहि


१. 'व्ययस्य’ क. २. ‘स्वविषय’ क. ३. ‘मुनिः’ ख.