पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
अलङ्कारसर्वस्वम्


अप्रतुतनिष्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यम् । विशेषस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्र- स्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपो न रूप- समारोपः। रूपसमारोपे । त्ववच्छादितत्वेन प्रकृतस्य तदूपरूपित्वादेव रूप- कम् । ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावा- त्रिधा भवति । तत्र श्लिष्टतया यथा-

‘उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥


अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।


गुपादानेनेति । प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम् । अत्र चाप्र स्तुतस्य किंहेतुकं गम्यत्वमित्याशङ्कयाह--तत्र चेत्यादि । तत्रेत्यप्रस्तुतस्य गम्यत्वे । विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यम् । ‘श्वसनविषमा रात्रिर्ज्योत्स्ना त- रङ्गितविभ्रमा शशिमणिभुवो बाष्पायन्ते निमीलति पद्मिनी । उपचिततमोमोह्या भूमिर्व्य नक्ति विवर्णतां तदिति गहने दर्श दर्श कथं सखि जीव्यते ॥’ इत्यत्र विशेषेणबहुत्वाभा- वेऽपि समासोक्तेः सद्भावात् । अतश्च विशेषणानां साम्यादिति न सूत्रणीयम् । अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्कयाह-विशेषणे- त्यादि । अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव । नह्यन्यधर्मसंबन्धिनो धर्माः स्वधर्मि- णमन्तरेणान्यत्रावतिष्ठन्ते । नह्यनायके नायकधर्माणामन्वयो युज्यते । अन्यधर्माणामन्य- त्रान्वयासंभवात् । अत एवान्यरोप्यमाणोऽन्यव्यवहारोऽन्यत्र न संभवतीति तदविनाभावा त्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतौ धर्म्यवच्छिद्यते न पुन- रोच्छाद्यते । तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमा- , रोपः । अत एवाह-प्रस्तुतावच्छेदकत्वेनेति । अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् । एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टयलक्षणमवच्छेद- कत्वं विधीयते । रूपके तु रूपसमारोपाद्रूपरूपितत्वाख्यमाच्छादकत्वमित्यनयोर्भेदः । तेन विशेषणानां साम्यादप्रस्तुतधर्मावच्छेद इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तु- तावच्छेदः समासोक्तिरित्येत्र सूत्रणीयम् । अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव । वि- षयस्योपादानाद्विषयिणश्चनुपादानात् । तदिति अप्रस्तुतस्य गम्यत्वे निमित्तम् । तत्रेति


१. ‘समासोक्तेर्गाचरम्’ क. २. ‘प्रस्तुतस्य' स्ख. ३. ‘अवच्छेदकत्वाच्च' क.


१. ‘बाहुल्यमेव ख. २. विशेषणासद्भावेऽपि’ ख. ३. ‘धर्माणां च' ख. ४. ‘न्वया सद्भावा' ख. ५. ‘संमवेदिति’ क. ६. ‘आच्छिद्यते’ ख. ७. ‘एव प्रस्तुतस्य’ क-ख.