पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
अलङ्कारसर्वस्वम्


त्समासान्तरमहिम्ना लताप्रतीतिर्ज्ञेया । रूपकगर्भत्वेन तु समासान्तराश्रय- णात्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविव- fर्तरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकर- विषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेश- विवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा-

'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ।


अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टपुरुषनिरू- पणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा-

‘मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चय
न्निव किल वृहत्पत्रन्यस्तद्विरेफमषीलवैः।
कुटिललिपिभिः कं कायस्थं न नाम विसूत्रय-
न्व्यधित विरहिप्राणेष्वायवयावधिकं मधुः ।'


संदेहसंकरः । तस्य समाश्रय उभयसमासग्रहणम् । तचैकस्मिन्नेव वाक्ये न संभवतीति कामचारेण तयोर्ग्रहणम् । संकरसमाश्रयेणाप्युपमासमासयोजने कृते यद्वदयमेवालंकारस्त- द्वद्रूपकसमासयोजनेऽपि किमयमेव किमुतान्कारान्तरमित्याशङ्कयाह-रूपकेत्यादि । एतच्च साक्षादपि रूपकगर्भे समासे योज्यम् । समानन्यायत्वात् । यद्येवं तर्ह्युपमासमाश्र- येऽप्येकदेशविवर्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्कयाह-न चेत्यादि । एष इति रूपकोक्तः । अभावादिति उद्भटमतेन । यदाहुः-‘न च रुद्रटस्यैवौद्भटस्यैकदे- शविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तः । अतश्चैतत्तन्मताभिप्रायेणोक्तम् । ग्रन्थ- कृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः । ननु यदि तयोर्ग्रन्थकृन्मतें संभवस्तदौपम्य- गर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति । तस्यैकदेशविवर्तिरूपकवदेकदे- शविवर्तिभ्यामुपमासंकराभ्यामैवार्थान्तरप्रतीतिसिद्धेर्वैयर्थ्यात् । नैतत् । यतोऽस्त्येव ता- वदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः । किं त्वेतदन्यभेदसहचारितमेवास्या निमित्तता भजते न पुनः केवलम् । तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्राप्तिः । तत्र श्लिष्टत्वसहचरितमेतद्यथा-‘परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति


१. ‘वैयर्यम्' ख. २. ‘रूपकम्’ ख. ३. ‘किं कायस्थैः ख. ४. ‘व्यथित' ख.


१. ‘रीत्या’ ख.२. ‘अन्यस्यापि ख३आरोपस्य गर्भत्वै' ख,४. 'लिष्टेन सह' स्ख.