पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०३

पुटमेतत् सुपुष्टितम्
71
द्वितीयप्रश्नः

 रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्याः ॥ ४६ ॥

 रिक्तास्सिरा ह्रस्ववर्णोच्चारणहेतुभूताः । अतिरिक्तास्सिरा (दीर्घ) वर्णोच्चारणहेतुभूताः । अतिपूर्णास्स्वरास्स्वरितप्लुतवर्णोच्चारणहेतुभूताः ।

 ननु तत्र सप्तशतसिराणां मध्ये अष्टाशीतिसिरा वर्णोत्पादकहेतुभूताः ह्रस्वसंयोगोच्चारणहेतुभूततत्तद्वेधविज्ञानविषयकज्ञानविषयानुभवप्रमापदवृत्तिनिमित्तकाः सुस्वराः अष्टाशीतिसिराजन्यपदविषयकप्रवृत्तिहेतुभूतत्वात् । ता न वेध्या इति ब्रुमः । ह्रस्ववर्णानामधोमुखास्सिराः तज्जनकहेतुभूताः सिरा रिक्ताः । अतिरिक्तास्सिराः संसर्गवर्णोत्पादकवक्रमार्गगाः । अतिपूर्णाः सिरा गतागतोद्बोधकप्रवर्तकपवनगतकार्यानुकूलसुस्वराः प्लुताश्च । तासां करणत्वं प्रतिपादितम् । करणस्य क्रियाविशेषवैलक्षण्यद्योतककार्यहेतुभूतत्वात् । सप्तशतसिराणां मध्ये अष्टानवतिसिराः सरन्ध्रकाभ्यन्तरधराः । ता एव रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्याः । कस्य चिद्देहभेदेन अष्टानवतिसिराः । काश्चित्सरन्ध्रकाभ्यन्तरधराः । सर्वेषामेकप्रकारकवर्णोत्पादकवर्णसमूहपदजन्यवाक्यानां तत्तच्छरीरावच्छेददर्शनात् । सप्तशतसिराणां मध्ये तादृशा एव नोत्पादका इति व्यवच्छेत्तुं वक्तुमशक्यत्वात् । तत्तच्छरीररूपविचित्रस्वरशब्दज्ञानविषयकः आत्मा प्रतिशरीरं भिन्नः सुखदुःखादिवैचित्र्यादिभेदेनोपलभ्यमानत्वात्, शब्दस्वरविचित्रवर्णाङ्गभेदद्रव्यगुणाधारकत्वात् । तस्मात्परोद्बोधकत्वसर्ववर्णप्रदात्मकानां ते वैचित्र्योपलम्भकत्वात् । सप्तशतसिराणां अवेधकत्वं वक्तुं विधेयाः सर्ववर्णानां भेदोद्बोधकाः । तस्मात्सप्तशतसिराणामधोमुखत्वं प्रतिपादितमित्यर्थः ।