पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०६

पुटमेतत् सुपुष्टितम्
74
आयुर्वेदसूत्रे

रोग-नेत्ररोग-कर्णरोग-मुखरोग-नासिकारोग-जिह्वारोग-कण्ठरोग-बाहुरोग-हृत्कुक्षिरोग-अजीर्णाग्निमान्द्यादिरोग-गुल्मरोग-मेहरोग-ग्रहण्यतिसारार्शोरोग-श्वासरोग-रोमराजिप्रदेशोद्भवशोभपाण्डुरोग-अण्डजातरोग-जंघाजानुरोग-श्रोणिकटिप्रदेशोत्थितरोगबोधकसिरा एव तत्तत्प्रदेशेषु व्याधीन्संसृज्य तत्तत्पदेशस्थितसिरा एव व्याधीन् ज्ञापयितुं पवनगत्या तावत्सिरा एव तत्तद्व्याधिलक्षणानि विज्ञापयन्ति । तत्तद्रोगहेतुभूतविरसादनात् कलादौर्बल्यात् आमप्रकोपे सति तत्तद्रसाभिवर्धकरसा एव तत्तद्रोगनिर्वर्तका इत्याशयं मनसि निधाय "तास्सिरा मर्माशयगाः" इत्याह । ननु अष्टनवतिसिरास्सप्तशतसिरा रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्या इति प्रतिपादितम् । इदानीं सर्वरोगेषु तत्तद्विधिचोदितसिरागतासृग्विमोचनमेव रोगनिवर्तकसामग्रीति तत्कार्यापेक्षितत्वात् वेधार्हसिराणां प्रतिपादनं युक्तम् । तास्सिराः कीदृशाः ? तद्ज्ञानानन्तरं तत्प्रतिपादकं तदेव ज्ञातुमावश्यकमित्यस्वरसादाह--सिरेति ।

 सिरासृग्विभागविधिं ज्ञात्वा विमोचयेत् ॥ ४८

 सिरागतासृग्विमोचनमात्रविधिः । काश्चिदवेध्याः । तस्मात् वेध्यावेध्यत्वप्रतिपादनकर्मणः प्रस्तुतत्वात् तत्तत्सिरागतासृग्गतकार्यस्य तत्सिरागतासृग्गतरोगस्य निवृत्त्यर्थं सिरासृग्विमोचनं कुर्यादित्यर्थः । न च तत्तद्रोगनिवृत्त्यर्थं तद्धेतुकसिराभेदनं अवसरत्वात् मर्मस्थानाधिष्ठितसिराव्यतिरेकेण तद्धेतुकसिराभेदविज्ञानविषयकज्ञानं ग्रहीतुमशक्यमिति वाच्यम् । यत्र विरुद्धरसादनात् जाताजीर्णजन्यामया एव दोषविकारगतयो भवन्तीति तस्माद्दोषपचनपर्यन्तं लङ्घनं कार्यमिति । यत्र विरुद्धरसादना