पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११०

पुटमेतत् सुपुष्टितम्
78
आयुर्वेदसूत्रे

इति । तत्पिण्डानां आविर्भावः केन कारणेन भाव्यः ? एवं गगनं नित्यद्रव्यम् । पृथिव्यादिचतुष्टयमनित्यम् । तत्र रूपद्रव्यग्राहकं तेजः । तत्तेजश्चक्षुर्गोलके स्थित्वा सर्वार्थान् पश्यति । तद्विषयकज्ञाने चक्षुः कारणम् । तज्जनकीभूतं च लवणरसद्रव्यं कारणम् । तद्विषयज्ञानकार्यस्य हेतुहेतुमद्भावप्रतिपादनं विना पञ्चभूतात्मकं शरीरमिति लक्षणं न सङ्गच्छत इत्यत आह--यावदिति ।

 यावदाहारानुगुणरूपवान् भवति ॥ ५३ ॥

 यावद्द्रव्यादनयावत्कार्यानुगुणानलादिद्रव्यं यावद्रसवद्द्रव्यादनजन्यस्वादुरसोद्भूतद्रव्यगुणकम् । रसनेन्द्रियविषयकं तच्च जिह्वाग्रवर्ति सर्वरसादिभेदं विविच्य गृह्णाति । स्वादुरसवद्द्रव्यादनजन्याल्पद्रव्याभिवर्धककार्यानुगुणकस्वादुरसवद्द्रव्ये स्वादुरसवद्विषयकज्ञानवानयमिति । यावद्द्रव्यादनजन्यस्वादुरसाभिवर्धकनासाग्रवर्ति घ्राणेन्द्रियं गन्धरसवद्ग्राहकं सर्वगन्धाभिव्यञ्जकपार्थिवद्रव्यविशिष्टगन्धवद्विषयकज्ञानवानयमिति । यावल्लवणरसद्रव्यादनजन्यानलाभिवर्धकचक्षुरिन्द्रियं नेत्रान्तर्गोलवर्तिरूपादिभेदविषयकज्ञानगोचरज्ञानवानयमिति । तिक्तरसद्रव्यादनजन्यपवनभूताभिवर्धककार्यानुगुणपवनं भूतद्रव्यस्पर्शवद्विषयकज्ञानगोचरज्ञानवानयमिति । एवमुक्तरीत्या पार्थिवादिचतुष्टयाभिवर्धककार्यानुगुणवद्द्रव्यं तत्तज्जिह्वेन्द्रियविषयकज्ञानगोचरज्ञानकार्यहेतुकं यावद्रसवद्द्रव्यादनजन्यं यत्तत्तदिन्द्रियविषयकज्ञानगोचरज्ञानहेतुकमिति प्रदर्शितम् । व्यतिरेकव्याप्तेः दृष्टत्वात् । तस्मादन्वयव्यतिरेकाभ्यां कार्यकारणभावो गृहीत इत्यर्थः । तदर्थं सर्वमनुमानप्रमाणेन विविच्य ज्ञाप्यते ।

 पृथिवीत्वविशिष्टद्रव्यं पृथिव्यसंयोगजन्यस्वादुरसवद्ज्ञान