पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११४

पुटमेतत् सुपुष्टितम्
82
आयुर्वेदसूत्रे

 सर्वमपि पैतृकं नाम मातुस्वादुरसवद्द्रव्यादनजातशुक्रमांसमज्जारेतआदिकं मातृरसाहारजातधातवस्सन्तः तत्रैव एधन्ते तथैव पितुस्स्वादुरसद्रव्यादनजाता अपि । पितृसम्बन्धिधमन्यस्थिकचादिकं तन्मिथुनकाले न जायते । किन्तु तथोत्पत्तिहेतुभूतमातुरेव शुक्लशोणितसन्निपातमात्रं तदानीमुपस्थितम् । तदनन्तरमेवाभिवर्धकं मातुः रसाहारादिकं न किमप्यन्यतरम् । यावच्छरीरोत्पत्तिपर्यन्तं आदिमध्यान्तजातरोगारोगैककारणमिति । तस्मात्तदारोग्यैकहेतुकं द्रव्यादनं प्रतिमासं प्रत्येकं निवर्तकं विधिरिति अत्र सूच्यते । पुत्रोत्पादनद्रव्यादनमपि पुत्रिकोत्पादनद्रव्यादनमपि द्वयोर्मिथुनकाले शुक्रशोणिते अपि समे स्यातां चेत्तत्र का गतिरित्याशङ्कायामाह-- द्विसम इति ।

 द्विसमो यत्र षण्डो भवति ॥ ५८ ॥

 अजो नाना जायते ॥ ५९ ॥

 पूर्वोक्तरीत्या मातृरसादनं तत्र हेतुरित्यर्थः । न जायत इत्यजः नानारूपवान् बहुरूपस्सन् स जीवः जायते इति सूत्रार्थः ।

 ननु इदमप्यनुपपन्नम् । एतदुत्पन्नपिण्डः अज इति प्रतिपाद्यते । रोगारोग्यैककारणप्रतिपादकसामग्रीकार्यं व्यर्थं स्यात् । तस्य अजन्यत्वमविनाशित्वं चोभयमपि स्वत एव सिद्धम् । आरोग्यकार्यहेतुभूतकारणप्रतिपादकशास्त्रमपि व्यर्थं स्यात् इत्यस्वरसादाह-- मासीति ।

 मासि मासि रजः स्त्रीणाम् ॥ ६० ॥

 मासे मासे स्रियः रजस्वला भवन्ति । तच्चतुष्टयदिवसपर्यन्तं स्पर्शयोग्या न भवन्तीत्यर्थः । पिण्डोत्पादकसकलसा