पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११७

पुटमेतत् सुपुष्टितम्
85
द्वितीयप्रश्नः

 प्रजाकामास्तावत्प्रयत्नं मिथुनं तावद्धेतुकम् ॥

 प्रजासम्पादनफलमवश्यं मे भूयादिति कामनया प्रवृत्तस्य पुंसः चतुर्दशदिनपर्यंन्तं निरीक्षणस्य को हेतुरित्याकाङ्क्षांयां तत्र हेतुं ब्रूमः-- रजस्वलादिनादारभ्य सप्त धातवः रक्तरूपेण स्रवन्ति । तदा स्त्रीणां सप्तमधातुप्रस्रावणं यतो लभ्यते पुन्निष्ठचरमधातुप्रस्रावणं एककाले योन्यां सन्निपातो यदि भवेत् तदानीमविलम्बेन कार्योत्पत्तिर्भविष्यतीत्यर्थः । पुंसस्तावत्कालनिरीक्षणं युक्तमिति चतुर्दशदिनपर्यन्तं सप्त धातवो रक्तरूपा भवन्ति तावत्कालयोग्यमिति । तथाहि चतुर्थे दिने चरमधातुप्रस्रावणस्य योग्यता । अहश्च रात्रिश्च एककालं एकैकधातुप्रस्रावणकालः यत्रोपलभ्यते तावत्कालो योग्यकाल इति । चतुर्थरात्रौ चरमधातुः स्त्रियः रक्तरूपेण स्रवति । तदानीमेव गर्भोत्पत्तिर्भवति यावत्कालं पुरुषधातुप्रस्रावणनियमो यत्रोपलभ्यते तत्र तावत्कालमुद्दिश्य त्रयोदशदिनपर्यन्तं योग्यं पक्षमात्रं गर्भाशयं प्रापयितुं योनिपद्मस्य विकसिताकारेण स्थितत्वात् । तत्रोभयोस्सान्निपात्यपर्यन्तं विकसितं भवतीत्यर्थः । सान्निपात्ये मुकुळीभवतीत्यर्थः । पक्षमात्रमुन्मीलनीभवति । पक्षमात्रं निमीलनीभवति । पक्षद्वयं मास इति "मासिमासि रजः स्त्रीणां[१]" । इति अत्र स्त्रीणां पक्षमात्रं रक्तस्रावे सति स दोषाय भवतीत्यर्थः । अत्र शारीरसूत्रवचनं-

ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रश्च निन्दिताः ।
एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ॥
उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम्[२]


  1. अष्टाङ्ग. शारीर. I. 7
  2. अष्टाङ्ग. शारीर. I. 27-28