पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११९

पुटमेतत् सुपुष्टितम्
87
द्वितीयप्रश्नः

 तदूर्ध्वे ऋतौ शोषकं तदनन्तरमपि शोषकरसाः गर्भाभिवर्धका यावत्कालोपयोग्याः ॥ ६६ ॥

 यथायथोपयोगयोग्यकरणसेवार्हाणि अनिन्दितानि आरोग्यकार्यहेतुभूतानि आगामिरोगाभावकार्यकारणानि यावच्छक्तिदोषाकारकाणि विधिवद्विविच्य ज्ञाप्यते-- प्रथमेति ।

 प्रथमद्वित्रिमासेषु मधुररसाः पवनहरा निवर्तकाः ॥ ६७ ॥

 अम्ललवणरसोपलम्भकद्रव्याभ्यां विशिष्टं स्वादुरसवद्द्रव्यं अन्तर्वत्न्याः प्रथमद्वित्रिमासेषु प्रशस्तं भवति । एतदन्योन्यसंसर्गजातरसवद्द्रव्यं विरुद्धरसजातपवनप्रकोपरोगाङ्कुरहेतुकद्रव्यादनं पवनहरं सकलशरीरोपयोग्यं सकलजीवमात्रसाधारणम् । तत्तज्जातिविहितपदार्थास्सेव्या इत्यर्थः । तावत्कालमात्रं तावद्रसादनेन निवर्तकेन निवर्त्याः निवर्तयन्तीत्युक्तम् । तदितरकालेऽपि विरुद्धरसादनकार्यस्य सम्भावितत्वात् तत्रापि गर्भाभिवर्धकद्रव्यादनस्यावश्यकत्वात् यावत्कालोपयोग्यं यथायथं विधेयकार्यहेतुभूतान्यनिन्दितानि आगामिरोगाभावकार्यकारकाणि तावद्द्रव्याणि विविच्य प्रकाश्यन्ते-- चतुरिति ।

 चतुःपञ्चषट्सु मासेषु अम्लरसाः पित्तहरा निवर्तकाः ॥ ६८ ॥

 स्वादुलवणरसोपलम्भकद्रव्याभावविशिष्टाम्लरसवद्द्रव्यं गर्भिण्याः चतुःपञ्चषट्सु मासेषु पाययितव्यम् । एतदन्योन्याभावप्रतियोग्यभावद्रव्यं अम्लरसवद्द्रव्यं विरुद्धरसाहारजन्यपित्त