पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२०

पुटमेतत् सुपुष्टितम्
88
आयुर्वेदसूत्रे

प्रकोपजातकार्यहेतुकद्रव्याभावात् अन्यद्रव्यादनं सकलपितप्रकोपशमनं सकलशरीरारोग्यकारकं सकलजनोपकारकहेतुभूतं तत्तज्जातिविहिताम्लरसवद्द्रव्यं गर्भिणीं पाययेदित्यर्थः । तेनैव गर्भो वर्धते तत्तदङ्गप्रकोपकारणं भवतीत्यर्थः । अन्तर्वर्त्न्याः आरोग्यविषये यावत्साम्लरसवद्द्रव्याणां निवर्तकत्वं प्रतिपादितम् । तदितररसवद्द्रव्याणां प्रयोज्याभावेन तेषामप्रयोज्यत्वं भवेदित्यस्वरसादाह-- षष्ठेति ।

 षष्ठाष्टनवमासेषूष्णरसाः कफशोषकाः प्रवर्तकाः ॥ ६९ ॥

 षष्ठाष्टनवमासेषु स्वाद्वम्लरसोपलम्भकद्रव्याभावविशिष्टोष्णरसवद्द्रव्यं अन्तर्वत्न्यामयविषये तत्तद्द्रव्यादनं विधेयम् । तत्तदन्योन्याभावप्रतियोग्यभावद्रव्यं उष्णरसद्रव्यमिति । तद्विरुद्धा रसाहारजातकफकोपकार्यं द्रव्याभावद्रव्यादनं सकलकफदोषजातरुक्प्रकोपशमनकार्यं सकलशरीरारोग्यकारकं सकलजीवनोपकारकहेतुभूतं तत्तज्जातिविधिविहितोष्णरसवद्द्रव्यं गर्भिण्याः पाययेदित्यलम् ॥

 ननु वातपित्तकफदोषनिवर्तकत्वं षड्रसानामेव प्रतिपादितम् । उक्तरीत्या स्वाद्वम्ललवणरसवद्द्रव्याणां दोषत्रयस्थितविकारं निवर्तयितुमशक्यत्वात् "तत्राद्या मारुतं घ्नन्ति" इति वचनानुसारेण उपपादितविकारनिवर्तकत्वं स्वाद्वम्ललवणरसवद्द्रव्याणां प्रतिपादितं न तिक्तोषणरसवद्द्रव्याणामिति चेत् न; रसपाके तथ त्रयाणामेव प्रयोजकत्वप्रतिपादनात् तिक्तोषणकषायरसानां तत्रैवान्तर्भावात्, किंच अनिमित्ते निवर्तकद्रव्यस्याप्रयोजकत्वात् ।