पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२२

पुटमेतत् सुपुष्टितम्
90
आयुर्वेदसूत्रे

विकाराणां निवर्तकभावः । अन्वयव्यतिरेकसहचरगम्यत्वं यत्रोपलभ्यते तत्रायं नियमः । तदर्थं तत्तद्द्रव्यमित्युक्तम् । यावत्कालेषु तत्तत्कालोचितरसवद्द्रव्याणां निवर्तकत्वं नियमेन यत्रोपलभ्यते तत्रायं नियमः । तदर्थमुक्तं तत्तत्कालेति । यावन्तो रोगाः यावन्निवर्तककार्यविषयाः इति नियमेन कार्यकारणभावा यत्र दृश्यन्ते, ‘यत्सत्वे यत्सत्वं यदभावे यदभावः’ इति नियमेन व्याप्तिग्रहो यत्र तत्रायं नियमः । तदर्थमुक्तं तद्विषय इति । तत्तज्जातिविहितविकारेषु निवर्तका इति सूत्रार्थः । नानाजातिस्थरोगानिवर्त्या इत्युक्तम् । सर्वनिवर्तकज्ञाने सति तथा वक्तुं शक्यते । सर्वपदार्थस्वरूपस्य ज्ञातुमशक्यत्वादित्यत आह--निवर्त्य इति । निवर्त्यो विकारः । शोषकपोषकवार्धिकविषयकद्रव्यत्वावच्छेदकज्ञानगोचरज्ञानोपाय इति विज्ञाय सर्वपदार्थविषयकत्वात् पुष्पफलसारादिद्रव्यं तेषु अप्रयोजनम् । कषायचूर्णतैलघृतलेह्यरसायनयोगेषु तत्तद्विधिविहितद्रव्येषु तथोक्तत्वादिदं पथ्यापथ्यविधिविचारज्ञानविषयकद्रव्यादनयोग्यभोज्यक्रमं अग्रे प्रतिपादयिष्याम इत्यर्थः ।

 ननु पत्रपुष्पफलादीनां फलवत्प्रवृत्तिविषयकं कषायतैलचूर्णघृतलेह्यरसायनादिषु भिन्नप्रकारकं पानभोज्यद्रव्येषु तद्भिन्नप्रकारकम् । सर्वद्रव्याणां द्विविधोपकारकत्वं तच्चिन्त्यम् । सर्वजातिषु सर्वकालेषु सर्वद्रव्येषु सर्वव्याधिषु अनुस्यूतप्रकारकतावच्छेदकं एकैकस्यैवेति वक्तव्यम् । अन्वयव्यतिरेकप्रमाणाभ्यां यस्य कस्य कार्यकारणभावो गृहीतः तत्रैवोचितमित्यस्वरसादाह-- तत्तदिति ।

 तत्तद्द्रव्यं तत्तत्काले तत्तद्विषये तत्तन्निवर्त्येषु निवर्तकम् ॥ ७२ ॥