पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२६

पुटमेतत् सुपुष्टितम्
94
आयुर्वेदसूत्रे

तेन सङ्कुचिताङ्गात्सम्यग्विकारो निवर्तते । गर्भाशयस्थपिण्डस्थसर्वाङ्गजनककार्यं मातुरङ्गहेतुकं, तदन्याहेतुकत्वे सति तद्धेतुकत्वात् । पिण्डाङ्गं मातुरङ्गजन्यमिति प्रतिपादितम् । पिण्डस्थितजठरानलकार्यस्य हेतोर्दृष्टत्वात्, तस्यापि मातुराहाररसजन्यत्वात् । पार्थिवाधिक्यद्रव्यादनात्पार्थिवाङ्गं भवति । अब्द्रव्याङ्गकार्यस्य अब्द्रव्याधिक्यद्रव्यादनं हेतुः । पिण्डस्थितजठरानलकार्यं तैजसद्रव्याधिक्यजन्यम् । तस्मादन्तर्वत्न्या घृतं पाययेदित्याह-- अन्तर्वत्न्येति ।

 अन्तर्वत्नीजन्यजातवेदा अन्तर्वत्नीघृतादनजन्यः ॥ ८० ॥

 अन्तर्वत्नीजन्यजातवेदा एव जठरानलो भवतीत्यर्थः ।

 प्रतत्रिणामङ्गाङ्गहेतुकत्वं अण्डानामङ्गजनकत्वं जठरानलस्यापि अण्डस्थितघृतमेव हेतुः । तत्तज्जातीयद्रव्यस्यापि गर्भाण्डजानां ईदृशकार्यकारणभावः प्रतिपाद्यत इत्याह-- खेचराणामिति ।

 खेचराणां जनयतस्सह सार्पिषा पक्षिशरीरे ॥

 तैजसद्रव्याधिक्याश्रिताः ऊर्ध्वमार्गगत्याश्रितत्वात्, अग्नेः प्रज्वलनवत् । तैजसाधिक्यशरीरादेव ते जीवा अण्डस्था एवाभिवर्धन्ते । अण्डोत्पत्तिहेतुभूतौ पवनानलाधिकद्रव्यशरीरात्मकौ तावेव पितरौ । तज्जातीयपिण्डानि स्वयमेवाभिवर्धन्त इत्यर्थः ।

 खगानां गगनवर्त्मारोहणं केन हेतुना प्राप्तम् ? पञ्चभूतात्मकं शरीरमिति लक्षणस्य सर्वसाधारणत्वात् । गमनागमनचलनात्मकं कर्म शरीरसामान्यमित्यत आह--आरोहणमिति ।