पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२८

पुटमेतत् सुपुष्टितम्
96
आयुर्वेदसूत्रे

गाभावकार्यस्य कारणत्वप्रतिपादनमात्रे पर्यवसितम् । तावद्रोगनिवर्तकं प्रति हेतुत्वं प्रतिपादितम् । न तद्गर्भसंरक्षणमात्रस्य हेतुत्वप्रतिपादकावस्थेयम् । अत्रेदं द्योत्यते-- पिण्डाभिवर्धककर्ममात्रं प्रतिपादितमित्यस्वरसादाह-- एधन्त इति ।

 एधन्तेऽस्मा ऋतवः ॥ ८५ ॥

 अत्र ऋतव इत्युक्ते षडृतूनां वार्धिकत्वं प्रतिपादितम् । इदं तु ऋतुप्रतिपादकप्रकरणं न भवति, किं तु गर्भाशयस्थपिण्डाभिवर्धककार्यस्य हेतुत्वप्रतिपादकावस्थेयम् । अत्रेदं न द्योत्यते, पिण्डाभिवर्धककार्यमात्रप्रतिपादकत्वात् । तथाहि-- ऋतुकर्मोद्देश्य ऋत्वभावकार्यहेतुत्वाभिवर्धककर्मादिविशिष्टकालज्ञापकत्वं ऋतुरिति । तादृशविशिष्टकालो गर्भाशयस्थपिण्डावयवाभिवर्धकद्रव्यादनादृत्वभावविशिष्टकार्या एधन्त इत्यर्थः ॥

 ननु ऋत्वभावविशिष्टकालाभिवर्धनेन कथं पिण्डावयवाभिवृद्धिः ? तद्योग्याभावकालस्य अदृष्टत्वादित्यस्वरसादाह-- अन्नेति ।

 अन्नाद्भूतानि जायन्ते ॥ ८६ ॥

 पिण्डाङ्कुराविर्भावहेतुकयावद्द्रव्यादनं ऋत्वभावकार्यहेतुकं भवतीति सोर्थोऽत्र विवक्षित इत्यर्थः । सर्वरसद्रव्यादनस्य सर्वेषामपि सम्भावितत्वात्, सर्वत्रापि कार्यस्यादृष्टत्वादित्यस्वरसादाह-- जातानीति ।

 जातान्यन्नेन वर्धन्ते ॥ ८७ ॥

 जातपिण्डाशयः पूर्वोक्तरसद्रव्यादनहेतुरिति प्रतिपादितमित्यर्थः ॥