अन्नादनं शरीरदार्ढ्यकारकमिति अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । 'यत्सत्वे यत्सत्वं यदभावे यदभावः' इति न्यायेन अन्नादने सति शरीरदार्ढ्यं तदभावे तदभाव न्यायनयसिद्धत्वात् । अन्यथासिद्धेश्च-- दिवा अभुञ्जानस्य देवदत्तस्य सत्वं रात्रिभोजनमन्तरेण न संभवतीति, तस्यापि रात्रिभोजनमन्तरेण सत्वं नोपपद्यते, स्वावयवव्यतिरिक्तपिण्डावयवाभिवर्धकं न भवति, अन्यसाधनस्य अन्यावयवाहेतुकत्वात् इत्यस्वरसादाह-- अद्यत इति ।
अद्यतेऽत्ति च भूतानि ॥ ८८ ॥
त्रिविधभूतानि । सात्विकराजसतामसद्रव्यादनात्तत्तद्गुणभूयिष्ठशरीराभिवृद्धिकारणत्वात्त्रिगुणात्मकं शरीरम् । भूतानि तत्तदभिवर्धकद्रव्यादुत्पद्यन्त इत्यर्थः ।
उक्तार्थमुपसंहरति-- तस्मादिति ।
तस्मादन्नं तदुच्यत इति ॥ ८९ ॥
अन्नं धातुप्रदं पुष्टिदं अवयवाभिवर्धनकरं एतादृशगुणं प्रयच्छति । इतिशब्देन हेतुरुच्यते । रसवदन्नमवयवाभिवृद्धिं करोति । तस्मादन्नरसमयं उपसंहृतार्थं शुद्धरसवदन्नं प्राणमयं पिण्डावयवाभिवर्धकं तदुच्यत इत्यर्थः ॥
अन्नं तु स्वनिष्ठ सगुणं प्रयच्छति, अवयवाभिवृद्धिकरणे सामर्थ्याभावात् । शुष्कान्नादनं विरुद्धफलं प्रयच्छति । कथमन्नं जीवातुरिति वक्तुं शक्यमित्यत आह-- घृतेति ।
धृतप्लुतान्नमन्तर्वत्याः प्रदापयेत् ॥ ९० ॥