पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३०

पुटमेतत् सुपुष्टितम्
98
आयुर्वेदसूत्रे

 शुष्कान्नं विरुद्धफलं ददाति । घृतप्लुतान्नमेव कार्यकारकम् । तस्मादन्तर्वत्याः घृतप्लुतान्नं दापयेदित्यर्थः ।

 पुनरप्युक्तमर्थमुपसंहरति-- तस्मादिति ।

 तस्मात्स्वावयवविभवं धातुवर्धनं कुर्वत्यः प्रजाः प्रजायन्ते ॥ ९१ ॥

 घृतप्लुतान्नादनं अवयवाभिवर्धकमित्युक्तम् । यत्किंचिद्विकारे सति तन्निवर्तकेन निवर्तनीयम् । तद्धृतप्लुतान्नमेव निवर्तकमिति वक्तुं न शक्यते, गुरुद्रव्यत्वात् । तस्मादसङ्गतमित्यस्वरसादाह-- तदिति ।

 तच्छोषकपोषकद्रव्यं तत्र भेषजम् ॥ ९२ ॥

 विकारे सति शोषकपोषकद्रव्ये कार्यकारके भवतः । जातशिशोश्च प्रथमर्तौ प्रथमं शोषकद्रव्यजातरुजः शोषकद्रव्यं भेषजम्, पोषकद्रव्यजातरुजः पोषकद्रव्यं निवर्तकम् । एवं दशममासपर्यन्तं अन्योन्यं निवर्तकं भवति । गर्भस्थशिशोर्यावद्द्रव्यमभिवर्धकं भवति तावद्द्रव्यमात्रं भेषजमित्यर्थः ॥

 ननु गर्भस्थशिशुवज्जातशिशुरपि भेषजद्रव्यैः पोष्यते । प्रथमोत्पन्नशिशोः द्रव्यादनज्ञानं नैधते । मातुराहाररसाहारजन्यप्रतिकारकरसवद्द्रव्यादनभैषजकर्मणः पोषकद्रव्यत्वात् । तद्वदत्रापि पोषकद्रव्याण्येव हेतुरिति वक्तुमशक्यत्वादित्यस्वरसादाह-- एवमिति ।

 एवमुत्तरोत्तराभिवृद्धिर्मासे र्मासे ॥ ९३ ॥

 यावद्योग्यरसादनं पक्षीकृत्य किंचित्किंचिदेधितव्यम् ।