पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३१

पुटमेतत् सुपुष्टितम्
99
द्वितीयप्रश्नः

अवयवाश्च कालश्च देशश्चेति एतानुद्दिश्य तत्तद्योग्यद्रव्यं एधितं हितं निवर्तकं भवतीत्यर्थः । शोषकपोषकद्रव्यस्य इयं व्यवस्था कृता । एवं प्रतिमासं चिकित्साकरणं कर्तुमयोग्यम् । वर्धिष्णोः शरीरस्य वृद्धिकरणद्रव्यादनमेव योग्यमित्यस्वरसादाह-- यावदिति ।

 यावद्वार्धिकास्तत्र भेषजाः ॥ ९४ ॥

 वार्धिकद्रव्यमात्रं प्रशस्तं भवति । तथा चेदतिप्रसङ्गस्स्यात् । यावच्छब्दार्थमहिम्ना यावद्योग्यरसवद्द्रव्यादनं विवक्षितमित्यर्थात् । न केवलं यावद्वार्धिकद्रव्यं वृद्धिकारकं भवति, कालवशात् शोषककार्यगुणस्वभावत्वात् इत्यत आह-सर्पिषेति ।

 सर्पिषा पोष्यपोषकाः ॥ ९५ ॥

 यावद्वार्धिकद्रव्यं सर्पिस्संयोगानलपाकजन्यं संस्कारविशिष्टपाकरसवद्द्रव्यं कार्यकारकं भवति, स्नेहवद्द्रव्यसंयोगजन्यवार्धिकगुणप्रापकद्रव्यत्वादित्यर्थः ॥

 लङ्घनादिना दोषे क्षीणे सति धातुशोषे सति तत्र पोषकद्रव्यं कार्यकारकं "असौ पोषणकरो भवतीति" । तत्र शोषकद्रव्येण निवर्तककरणं अयोग्यमित्यत आह-- नेति ।

 न पोषककाले शोषकाः ॥ ९६ ॥

 पोषककार्यकरणयोग्यकाले शोषकद्रव्यकालोचितकरणं अयोग्यमित्यर्थः । ननु पोषकाश्च शोषकाश्च लोके व्यवहारयोग्याः षड्रसा एव । एकैकरसवद्द्रव्यस्य एकैकधातुपोषकत्वप्रयोजकत्वमागतम् । तावत्पोषकत्वस्य स्वत एव सिद्धत्वात् । रसवद्द्रव्यातिरिक्तद्रव्याभावादित्यस्वरसादाह--षड्रसा इति ।