पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३९

पुटमेतत् सुपुष्टितम्
107
तृतीयप्रश्नः

 यथारोगनिवर्तकाः शोषकपोषकाः ॥ १६ ॥

 स्वादुरसवद्द्रव्यं सत्वगुणहेतुकम् । आम्लरसवद्द्रव्यं रजोगुणहेतुकम् । लवणोष्णरसवद्द्रव्यं तमोगुणहेतुकम् । न ते रोगनिवर्तकाः । किन्तु शोषकपोषकद्रव्यादनादेव अनेकद्रव्ययोगत्वेन बहुरसवद्द्रव्यं रोगनिवर्तकं भवेदिति वक्तव्यम् । रोगस्तु यदा आविर्भूतो भवति तदा सः अनेकामयाननुजायते । तत्र तद्रोगनिवर्तकेन अनेकरसवद्द्रव्यबाहुळ्येन भाव्यमित्यर्थः ।

 ननु अत्र सत्वरसवद्द्रव्यं वा रोगनिवर्तकम् ? यत्किंचिद्रसवद्द्रव्यं वा ? नाद्यः अतिप्रसङ्गात् । यत्किंचिद्द्रव्यादनमिति चेत् तदा एकरसवद्द्रव्यादनेनापि भाव्यम् । तथा सति अन्यथा सिद्धमिति अस्वरसादाह-- योग्येति ।

 योग्ययोगो योगः ॥ १७ ॥

 यावद्रोगानुसारिनिदानज्ञानं तत्तद्द्रसवद्द्रव्यनिदानज्ञानपूर्वकं अनेकरोगामगतरोगस्य बहुरसवद्द्रव्ययोगनिवृत्तिसामग्रीकत्वात् इति ।

ऋषिरेव हि जानाति द्रव्यसंयोगजं फलम् ।

भेषजकल्पवचनं तु--

देशकालानुगुण्येन सङ्गृहीतं यथाविधि ॥
स्थापितं भेषजं तैस्तैः कल्पनैरमृतायते ॥

यथारोगानुसारितत्तद्विधिचोदितरसबाहुळ्ययोगत्वं रोगनिवर्तकं भवतीत्यर्थः ॥

 ननु "आधिकं नैव दूष्यते" इति न्यायेन अनेकस्वादुरसवद्द्रव्यं वायुनिवर्तकम् । अनेकाम्लरसवद्द्रव्यमेलनं पित्तरोगनिव