पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४०

पुटमेतत् सुपुष्टितम्
108
आयुर्वेदसूत्रे

र्तकम् । अनेकलवणोष्णरसवद्द्रव्यं कफनिवर्तकम् । एतादृशयोगकल्पनमेव योग्ययोगो भवेदित्यस्वरसादाह-- चित्तेति ।

 चित्तविभ्रमो विपर्ययः ॥ १८ ॥

 यावद्रोगपित्तरसवद्द्रव्यमेळनव्यतिरेकेण योगकरणं विरुद्धयोगो भवति । तत्तु चित्तविभ्रमो भवति । चित्तं मनः । तयोरैक्येन रजतत्वाभाववति शुक्तौ रजतं यत्र भासते तत्र चित्तविभ्रमो भवतीत्यर्थः ।

 ननु रजतत्वप्रकारकज्ञानग्राहकसामग्रीविशिष्टपुरोवर्तिनं यदा विषयीकरोति रजतत्वप्रकारकज्ञानग्राहकसामग्र्या तद्विशिष्टमेव भासते हट्टपट्टणादौ । तथा दृष्टत्वात् । यावज्ज्ञानगोचरसामग्र्या अभावात् चित्तविभ्रमः कथं स्यादित्यस्वरसादाह-- अतदिति ।

 अतस्मिंस्तदिति प्रत्ययः ॥ १९ ॥

 यत्र रजतत्वाभाववति शुक्तौ रजतत्वं भासते तत्तत् । अतस्मिन् अन्यस्मिन् तदिति भ्रमो जायते । तत्र विकल्पः, तद्विषयकज्ञानग्राहकसामग्री तद्विशिष्टार्थमेव गोचरीकरोति, पुरोवर्तिग्राहकसामग्र्या सत्वादित्यत आह-- पित्तेति ।

 पित्ताधिकैकजातात्पीतश्शङ्खः ॥ २० ॥

 पित्तप्रकोपरसादनेन पितरोगोद्भवो भवति । तत्र काचकामालादिरोगवशात् श्वैत्यगुणविशिष्टपुरोवर्तिनि पीतगुणविशिष्टोऽयमिति ज्ञानं जायते, तत्तद्दोषवशात् । तच्च तद्दोषविरुद्धादनाद्भवति । तदा पीतश्शङ्ख इति ज्ञानं जायते ।