वात् । यदा यस्य भ्रमो भवति तस्य राजसतामसगुणप्रतिपादकसामग्र्या भिन्नत्वादित्यस्वरसादाह रज इति ।
रजस्तमोगुणहेतुकद्रव्यपरिणामकात् [१]पित्ताद्विभ्रमो भवति ॥ २४ ॥
राजसगुणजनकाम्लरसविरसद्रव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तामसगुणजनकलवणकटुरसविरसवद्द्रव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तस्माद्भ्रमस्तु रसविरसजन्यः । संशयस्तु न तथाभूत इत्यर्थः ।
ननु यत्संशयव्यतिरेकनिश्चयौ यत्प्रवृत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुरनुमितौ व्याप्तिरिवेति न्यायशास्त्रानुसारेण अनिमिषदृष्टिदोषवशादेव भ्रमज्ञानं सम्भवतीत्यत आह-- तदिति ।
तद्विषये चाक्षुषाण्यनुभूतार्थेषु ॥ २५ ॥
अन्येषां प्रमात्वेनानुभूतार्थे स एव विषयो यस्य तस्मिन् तद्विषये भ्रमो यस्य भवतीति स भ्रमो निवर्तकेन निवर्त्यः ।
ननु इन्द्रियार्थसन्निकर्षानन्तरं अयं घट इति ज्ञानानुभूतार्थे जाते सति ममोत्पन्नं ज्ञानमप्रमाणमिति यो मानसिकभ्रमो जायते तद्यावद्रसवद्द्रव्यादनजन्यरोगग्रस्तेन्द्रियज्ञानगोचरत्वाभावादित्यस्वरसादाह-- यावदिति ।
यावद्गर्भाशयस्थं पिण्डं तावद्द्रव्यपरिपालनम् ॥
यावद्गर्भाशयस्थं मन इत्यर्थः । अस्मिन्मनसि चक्षुरिन्द्रियज्ञानगोचरघटविषयकमनसि अन्योत्पन्नज्ञानं अतद्विषयकं तदर्थप्रवृत्तौ न समर्थं प्रवृत्तिजनकत्वाभावात् भ्रमविषयकप्रमावत् ।
- ↑ पित्ताद्भ्रमो भवति-- A.B.