पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५२

पुटमेतत् सुपुष्टितम्
120
आयुर्वेदसूत्रे

भ्रमः, निवर्तके पुरोवर्तिनि पीतत्वानुभवस्य बलवत्त्वादिति तत्तद्दोषराहित्यमेव भ्रमसंशयप्रतिबन्धकं भवेदित्यत आह-- निर्दोषेति ।

 निर्दोषचक्षुस्तत्र जनकम् ॥ ४८ ॥

 तद्वति तत्प्रकारकत्वं दोषरहितचक्षुषा गृह्यत इत्यर्थः ।

 ननु भूयोदर्शनेन धूमाग्न्योर्व्याप्तिग्रहे सति धूळीपटलं दृष्ट्वा यत्र वह्निभ्रमो जायते तत्र पूर्वानुभवव्याप्तिग्रहस्य अदोषविषयकत्वात् बाह्यज्ञानविषयकज्ञानगोचरसामग्रीविरहादेव भ्रमो जायते । तद्भ्रमस्य दोषजन्यत्वं न वक्तव्यमित्यस्वरसादाह-- चक्षुरिति ।

 चक्षुर्गृहीतलैङ्गिकज्ञानं प्रमाणम् ॥ ४९ ॥

 निर्दोषचक्षुषा भूयो भूयः धूमं दृष्ट्वा वह्निं पश्यति, यत्र धूमस्तत्राग्निरिति । तत्र दोषजनकरसवद्द्रव्यादनं न कारणम् । तदभावेऽपि भ्रमदर्शनात् । बाह्येन्द्रियविषयज्ञानगोचरसामग्रीवैकल्यादेव भ्रमो जायते । तत्र रोगोत्पादकसामग्र्या अदृष्टत्वात् । भ्रमसंशयौ रोगोत्पादकसामग्रीजन्यौ भ्रमजनकसामग्रीजन्यत्वात् । तत्र विरसजन्यरोगोत्पादकसामग्र्या नियमेन दृष्टत्वात् । आगमप्रमाणेनापि भ्रमनिवृत्तेः भ्रमो निवर्त्य इत्याह-- भ्रमेति ।

 [१]भ्रमाभावजनकमाप्तवचनमागमः ॥ ५० ॥

 आप्तवचनजन्या प्रमा स्वदोषजन्यप्रमाप्रतिबन्धिका न भवति । आप्तवचनस्य भ्रमाभावप्रतीतिजनकत्वात् । तस्माद्रसविरसजन्यदोषहेतुना इन्द्रियगोचरभ्रमविषयकज्ञानं प्रत्यक्षेण वा अनुमानेन प्रमाणेन वा आगमप्रमाणेन वा दोषजन्यभ्रमज्ञानं निवर्तते । तत्र दोषाणामेव कारणत्वप्रतिपादनादित्यर्थः ॥


  1. भ्रमाभावप्रतीतिकः