पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५५

पुटमेतत् सुपुष्टितम्
123
तृतीयप्रश्नः

तदितरपदार्थज्ञाने सति इतराभाववति प्रमाणत्वं ज्ञातुं शक्यत एवेत्यर्थः ।

 सा प्रतीतिः तिक्तकटुरसवद्द्रव्यादनाद्भवति ॥

 ननु सर्वपदार्थेन्द्रियसन्निकर्षसामग्र्यां सत्यां तत्तत्सामग्र्या तत्तदर्थो ग्रहीतुं शक्यते । तस्मात् सर्वपदार्थविषयकज्ञानग्राहकसामग्री यावज्ज्ञानसामग्री शुक्तिविषयकज्ञानग्राहकसामग्री तावत्सामग्र्याः तदानीमसंभावितत्वात् काचित्सामग्री वक्तव्या । सा समग्री तिक्तकटुरसद्रव्यादनसामग्री यस्यास्ति सा सामग्री सर्वपदार्थग्राहिका भवतीत्यर्थः ।

 ननु सर्वपदार्थेतरत्वं शुक्तौ कथं सम्भवति सर्वपदार्थानां सान्निध्याभावात् । उक्तरीत्या पुरोवर्तिनं ग्रहीतुं न शक्यत एवेत्यस्वरसादाह-- प्रमाणेति ।

 [१]प्रमाणेनानुभूतार्थासंप्रमोषः स्मृतिः ॥ ५६ ॥

 प्रमात्वेन पूर्वानुभूतार्थं पुरोवर्तिविषयकज्ञानग्राहककाले पदार्थत्वावच्छेदेन पूर्वानुभूतपदार्थं उपस्थिता भवन्तीत्यत्र न शङ्काविषया भवन्तीत्यर्थः । तावदर्थान् मनसि स्मृत्वा प्रमोषराहित्यं कर्तुं शक्यत एवेत्यर्थः । सात्विकगुणोदयसामग्री मधुररसवद्द्रव्यादनसामग्री । तेन हेतुना मनसा पदार्थत्वावच्छेदेन सर्वपदार्थान्सङ्गृह्य स्मर्तुं शक्यत एवेत्याह-- मधुरेति ।

 मधुररसपरिणामाज्जातसात्विकोदयात् सोऽयमिति व्यपदेशः ॥ ५७ ॥


  1. योग. 1.11