पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५७

पुटमेतत् सुपुष्टितम्
125
तृतीयप्रश्नः

 [१]विषयविरागतः प्रवाहोत्साहात् पुनःपुनरभिनिवेशनं वैराग्यम् ॥ ५९ ॥

 अस्यार्थः-स्वचक्षुरिन्द्रियगोचरविषयकज्ञानस्याविषयो रजतम् । अस्मिन् भ्रान्तिराहित्यं विरागत्वं, अन्तश्चित्तप्रवाहे शुक्तिरियमिति धारावाहिकज्ञानम् । तद्ध्यानाहितज्ञाने उत्साहः प्रीतिः, पुनः पुनरभिनिवेशनं पौनःपुन्यं भृशार्थो वा । इयं शुक्तिः नेदं रजतमिति (संशय) क्रियादिराहित्यं विरागसम्बन्धि वैराग्यम् । पुरोवर्तिविषयः शुक्तिर्भवितुमर्हति रजतविषयकज्ञानाविषयकत्वे सति सविषयकत्वात् । मनसि उत्पन्नशुक्तिविषयकज्ञानस्य अप्रामाण्याभावत्वं सिध्यतीत्यर्थः ।

 ननु धारावाहिकज्ञानानां गृहीतग्राहिणामपि पुरोवर्तिनीदन्त्वेन रजतत्वेन अप्रमाजनकवाक्यज्ञानेन शुक्तौ संशयभ्रमज्ञानविषयकं स्वत एव तद्भवतीत्यस्वरसादाह-- दृष्टेति ।

 [२]दृष्टानुश्रविक[३]विषयतृष्णावशीकरणसंज्ञास्तथा ॥

 पूरोवर्तिनीदन्त्वेन ज्ञानोत्पत्तिं विना इदं शुक्तिविषयकं शुक्तिविषयकज्ञानग्राहकसामग्रीजन्यत्वात् इत्यनुमानेन पुरोवर्तिशुक्तिकाशकले विगततृष्णा यस्यास्सापि विगततृष्णा, तस्या वशीकरणसंज्ञकं विषयो भवतीत्यर्थः ।

 ननु पुरोवर्तिनि शुक्तौ इन्द्रियार्थसकलसामग्र्यां सत्यां तद्वति तत्प्रकारकानुभवे सति सोऽनुभवो न भ्रमसंशयज्ञान

  1. विषयदोषविकारकान्तः प्रवाहोत्साहपुनःपुनरभिनिवेशनं वैराग्यम् A.
    विषयदोषविकारगतः प्रवाहोत्साहासनः पुनःपुनरभिनिवेशनं वैराग्यम्--B.
  2. योगः. I. 1, 15.
  3. 'विषयवितृष्णा' इति पाठान्तरम्.