पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५९

पुटमेतत् सुपुष्टितम्
127
तृतीयप्रश्नः

 प्राणादिपञ्चकानां निरोधनं यत्र दृश्यते तत्र रोगोत्पत्तिर्भवति । तत्पवननिरोधनेन आशया दुष्टा भवन्ति । धातवोऽपि दुष्टा भवन्ति । तज्जन्यकाचकामिलादिवशात् संशयविभ्रमौ भवत इत्यर्थः ।

 ननु सर्वत्रापि संशयभ्रमजनकसामग्र्यां प्रामाण्यज्ञानोच्छेदस्स्यात् इत्यस्वरसादाह-- आसन्नेति ।

 आसन्नविषयकज्ञानहेतुकान्तरात्माऽन्तःकरणयोगाभ्यासवशात् पवननिरोधनादरोगी स चिरायुर्भवति ॥ ६३ ॥

 ननु घटेन्द्रियसन्निकर्षानन्तरं तज्ज्ञानग्राहकसामग्र्यां सत्यां भ्रमज्ञानानुभवो भवेत् । तन्निष्ठप्रामाण्यमपि गृह्यतां नाम, इतरेन्द्रियविषयेषु तज्ज्ञानविषयकप्रामाण्यं कथं गृह्यते ? पञ्चेन्द्रियविषयज्ञानेषु विरागो नाम विशेषेण रागो विराग इत्यर्थः । तस्मात्पञ्चेन्द्रियविषयज्ञानेषु विशेषेण रागो भवतीत्यर्थः । इन्द्रियार्थसन्निकर्षानन्तरं आत्ममनस्संयोगसकलसामग्र्यां सत्यां यावद्विषयकज्ञानमुत्पद्यते, तद्धेतुकं प्रामाण्यं अप्रामाण्यग्राहकसामग्रीव्यतिरिक्तसामग्रीजन्यत्वात्, मदुत्पन्नघटज्ञानविषयकप्रामाण्यवत् । आत्मा जीवः । अन्तःकरणं चित्तम् । तस्य जीवात्मना योगः । तद्वशात् तत्कारणवशात् तद्विषयकज्ञानगोचरज्ञाननिष्ठप्रामाण्यप्रतिबन्धकं भ्रमजनकसामग्री पवननिरोधनं अरोगकारणं, अप्रामाण्याभावसामग्रीजन्यत्वात् इत्यर्थः ।

 ननु विषयपञ्चकेषु विरागो नाम विशेषेण रागो विरागः । शास्त्रस्य विषयानुभवमात्रफलं लभ्यते । तेन मोक्षविरोधो भवति ।