पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६०

पुटमेतत् सुपुष्टितम्
128
आयुर्वेदसूत्रे

प्रत्युत स व्याधिकारको भवति । एतेन चिरायुष्ट्वं कथं प्राप्यते ? इत्यस्वरसादाह-- तस्मादिति ।

 तस्मात्प्राणादिपञ्चकफलीभूतं कार्यम् ॥ ६४ ॥

 अस्यार्थः-- शरीरं दोषधातुमलाशयात्मकम्, प्राणादिपञ्चकोपजीव्यप्रकृत्याधारकत्वात्, यन्नैवं तन्नैवं, यथा घटः । चेष्टाश्रयं शरीरमिति चेष्टाश्रयत्वं शरीरावच्छेदकम् । चेष्टा तु सा यद्धिताहितप्राप्तिपरिहारार्थं स्पन्दनरूपा । तस्मात् शरीरं प्राणादिपञ्चकं फलीभूतं भवति । सा चेष्टाश्रया प्रकृतिरिति । इदं सर्वं श्रुत्या प्रतिपादितम् । सा श्रुतिः-- "प्राणापानव्यानोदानसमानसप्राणा श्वेतवर्णात्मिका सा त्रिपदा व्याहृतित्रयात्मिका" । तत्र श्रुतिवचनं प्रमाणम्-- "भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । एतैर्महच्छिरो भवति । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते ।" इति तस्मात् प्राणादिपञ्चकं संरक्षणीयं रोगाभावकार्यहेतुकं मोक्षहेतुः कथं भवेत् । यस्य प्राणादिपञ्चकं स्ववशं भवति, तस्य चिरायुष्ट्वमपि लभ्यते । तस्मात्प्राणादिपञ्चकं फलीभूतं कार्यमित्युक्तम् । तस्माच्छुद्धरसवद्द्रव्यादनं शरीरसंरक्षणं करोति, विरसवद्द्रव्यादनं प्राणघातं करोतीति पर्यवसितार्थः ।

 ननु प्राणादिपञ्चकस्य फलीभूतं नाम-- प्राणवायुः देहचलनकर्म विधत्ते । स पवनः अविकृतस्सन् पादाभ्यां गतागतत्वं च कर्म निमेषोन्मेषादिकं च आपादमस्तकं कर्म कुर्वन् चलनात्मकं कर्म कुरुते । अपानवायोश्च प्रयोजनमस्ति-- मेढ्रगुदप्रदेशेषु स्थितस्सन् स्वयमविकृतस्सन् तथा विक्रियते । व्यानानिलस्य