पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६१

पुटमेतत् सुपुष्टितम्
129
तृतीयप्रश्नः

कार्यं च–- पाचकपित्तेन स्वयमपि पञ्चधा भूत्वा पाचकपित्तमपि पञ्चधा कुर्वन् अन्नं गृह्णाति, पचति, विवेशयति । सारकिट्टतया भुक्तान्नं विभज्य मुञ्चति । आशयप्रवेशं करोति । स सर्वशरीरं व्याप्य तिष्ठति । उदानवायोश्च प्रयोजनं--नासादिपर्यन्तं सञ्चरन् वाक्प्रवृत्तिं करोति । बलवर्णयोश्च वृद्धिं विधत्ते । समानवायोश्च प्रयोजनं-- जठरानिलस्य समीपे स्थितस्सन् भुक्तान्नरसं पक्वान्नं कायं प्रवेशयन् प्रतिमुञ्चति । एवं पञ्चवायूनां फलम् । तेषां मोक्षफलप्रदानस्य अनावश्यकत्वादित्यस्वरसादाह-- अदृष्टेति ।

 अदृष्टेनेन्द्रियेणात्मा मनसा संयुज्यते ॥ ६५ ॥

 अदृष्टः ईश्वरः, तेन प्रेरितस्सन् अर्थसंसर्गगोचरेन्द्रियेण तद्विषयकगोचरफलं विज्ञाय औपाधिकहेयोपादेयविधिफलं विज्ञाय मन इतरपदार्थविषयकविज्ञानं विसृज्य आत्मज्ञानगोचरज्ञानफलं आमुष्मिकफलं च जीवात्मनो विधत्ते । एवं मनः आत्मसंयोगजन्याधिकफलं जीवस्य प्रयच्छतीत्यर्थः ।

 ननु आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमात् । तत आत्मा इन्द्रियविषयकज्ञानगोचरफलं भुङ्क्ते । न तत्फलमामुष्मिकं विषयसंयोगजन्यज्ञानफलस्य बलवत्वात्, इत्यस्वरसादाह-- सर्वेति ।

 सर्वधातवः सत्ववशं गताः ॥ ६६ ॥

 मनोनिरोधनेन श्वासोच्छ्वासनिरोधनेन च मुखमार्गेण बहिः पवननिरोधनेन च स्वोदरपूरणकर्मकरणेन च पृष्ठमार्गेणापि बहिः पवनापहारणम् । तत्पवनं नाभिप्रदेशेऽपि कृतकर्मकरणान्तरम् पवनेन कुक्षिस्थितसिरामार्गस्यानुबन्धनं निश्वासोच्छ्वासानां कण्ठप्रदेशनिरोधनं आपादमस्तकं सञ्चरतीत्यर्थः ।

 AYURVEDA.
17