पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६२

पुटमेतत् सुपुष्टितम्
130
आयुर्वेदसूत्रे

 ननु बाह्येन्द्रियविषयज्ञानगोचरज्ञाने वैराग्यं मनोविषयकं आत्मविषयज्ञानहेतुकं भवतीति तत्र बाह्येन्द्रियविषयज्ञाननिष्ठभ्रमाभावानुभवग्राहकसामग्र्येव भ्रमोत्पादकसामग्रीव्यतिरिक्तसामग्रीजन्येति वक्तव्यम् । तथाहि रोगाभावकार्यं पञ्चेन्द्रियनिरोधनजन्ययोगाभ्यासपवनवशात् भवति । तथा सति धातवो दृढतरास्सन्तः ? रोगाभावकार्यकारणवशात् श्रुतिप्रतिपादितफलं लभ्यत इत्यस्वरसादाह-- यत्कालेति ।

 यत्काले यद्योगे [१]यथाविधि फलप्रदाः प्रजाः प्रजायन्ते ॥ ६७ ॥

 तत्संयोगजातधातवः प्रवर्तकाः ॥ ६८ ॥
 (यां कामयेत दुहितरं प्रिया स्यादिति ।
 [२]तां निष्ठाय दद्यात् । प्रियैव भवति ।
 स न तु पुनरागच्छति ।

 अत्र तु अरोगत्वसम्पादनवशात् शतायुः पुरुषः शतेन्द्रियत्वं च लभते ।

 ननु मातापित्रोः दौहित्रजननं मोक्षकरम् । तयोर्धातुदार्ढ्यकरणस्य आवश्यकत्वेन रोगाभावकार्यकरणद्वारा मोक्षप्राप्तिर्भवतीति दुहितृशिशुस्साक्षात्सामग्री स्त्रीप्रयुक्तरक्ताधिक्यसामग्र्या भवतीत्यस्वरसादाह-- स्त्रीपुंसाविति ।

 स्त्रीपुंसावात्मभागौ भिन्नमूर्तेस्सिसृक्षया ॥ ६९ ॥


  1. यथाविधि फलप्रदानुप्रजाः A & B.
  2. कुण्डलान्तर्गतसूत्राणि A. B. कोशयोरत्रैव पठितानि । व्याख्याता तु पृथक्कृत्योत्तरत्र 132 पुटे व्याचष्टे ।