पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६४

पुटमेतत् सुपुष्टितम्
132
आयुर्वेदसूत्रे

 आदरातिशयोद्भूतभूयोभूयोनिरीक्षायोगादिषु भूमिः ॥ ७२ ॥

 तत्र भूयो निरीक्षणात् स्वरूपं च प्रतिपद्यते । परमानन्दहेतुकत्वात् इह लोके परमसुखप्रदानत्वात् भूयोनिरीक्षणयोगादिषु भूमिः अपरिमितानन्दस्य भूरित्यर्थः ।

 ननु आत्मविषये यावद्विषयनाशे सति तन्नाशादित्यस्वरसादाह-- तामिति ।

 तां निष्ठाय दद्यात् ॥ ७३ ॥

 सालङ्काररूपादिविशिष्टां कन्यां यो दद्यात् सत्कुलप्रसूताय श्रोत्रियाय, कन्यादाने यः प्रवर्तते तस्य सुखं मोक्षफलं लभ्यते, ऐहिकसुखमपि भुङ्क्त इत्यर्थः ।

 कन्यादानफलमाह प्रियेति ।

 प्रियैव भवति ॥ ७४ ॥

 कन्यादानफलप्रदानस्य प्रतिभूः ईश्वरो भवतीत्यर्थः । ईश्वरप्रीत्यर्थं यः कन्यादानं करोति तस्य ऐहिकफलमामुष्मिकफलं च दीयत इत्यर्थः ।

 ननु कन्याजननमेव कामयन् स्वकर्मक्लेशचोदितस्सन् ईश्वरप्रीत्यर्थं दानं करोति । तेन ईश्वरस्सुप्रीतो भूत्वा स्वयमेव प्रतिभूस्सन् फलं ददातीत्युक्तम् । तत्र कन्यादानकर्मणः ईश्वरप्रीतिरेव फलं भवति । तेनापि तस्य किं फलमासीदित्यस्वरसादाह-- नेहेति

 नेह पुनरागछति ॥ ७५ ॥

 यत्तस्य इहलोकसुखदुःखादिकं तदीश्वरो नाददीत, ईश्वरकैवल्यं पुनराददीत । इहलोकं प्रति स पुनर्नागच्छति गर्भदुःखादिकं न भुङ्क्ते । तस्माद्योगाभ्यासवशात् सप्तधातुमयं शरीरमिति