पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६७

पुटमेतत् सुपुष्टितम्
135
तृतीयप्रश्नः

णवैतृष्ण्यं नाम मधुररसादनप्रयुक्तपुरुषविषयकज्ञानजन्यज्ञानं आनन्दहेतुकमिति विवक्षितमित्यर्थः । पुरुषख्यातिः परमपुरुषज्ञानविषयकख्यातिः । विषयज्ञानानन्दहेतुकवैराग्यं बाह्येन्द्रियविषयकज्ञानं परमपुरुषगोचरं न भवति, इन्द्रियार्थसन्निकर्षाभावात्, किं तु अन्तरिन्द्रियगोचरज्ञानविषयकं यावद्विषयकज्ञानं यावदनुभवहेतुकं भवेदित्यस्वरसादाह-- यावदिति ।

 [१]यावदिन्द्रियविषयज्ञानानां यदार्थोल्लेखिभावना क्रियते स वितर्कः ॥ ८१ ॥

 तर्को विचार इत्यर्थः । यावदिन्द्रियविषयज्ञानानां याववद्विषयानुभव आनन्दहेतुक इति विचारः, तर्कसहकृतज्ञानकार्यकर्मेत्यर्थः । यदार्थोल्लेखिभावनाक्रमस्तर्कज्ञानेन भाव्यः तद्भावनायाः यथायथं यावदिन्द्रियविषयकज्ञानानां यावद्विषयानुभव आनन्दहेतुको भवतीत्यर्थः ।

 ननु यावद्विषयानुभवज्ञानं यावदानन्दहेतुकम् । परमात्मानुभवज्ञानं परमानन्दहेतुकं, शरीरस्य उभयोरप्यायतनत्वात् । तत्र विषयानुभवस्य विषयैकनाश्यत्वेन परमात्मानुभवस्य परमात्मविषयकत्वेन अयं नित्यानन्दानुभव इत्याशयं मनसि निधायाह--पूर्वेति ।

 पूर्वापरानुसन्धानशब्दार्थोल्लेखभावना निर्विकल्पः ॥ ८२ ॥

 बाह्येन्द्रियज्ञानानुभववान् सवितर्कः । सवितर्को नाम सविकल्पः । सविकल्पज्ञानानुसन्धानमेव परमात्मानुसन्धानम् । तदनिर्वाच्यज्ञानविषयकम् । शब्दार्थोल्लेखभावनाशून्यत्वम् । तदेव निर्विकल्पकर्म । देवदत्तो जीवन्मुक्तो भवितुमर्हति परमात्म

  1. योग. 1. 32.