पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६८

पुटमेतत् सुपुष्टितम्
136
आयुर्वेदसूत्रे

विषयकज्ञानानुभवात् । नित्यनैमित्तिककर्मद्वारा परमात्मानुभवज्ञानमुपलक्ष्यते । तस्यापि शरीरदार्ढ्यकरणहेतुत्वेन तदेव आरोग्यकार्यकरणमावश्यकं भवति । अत एव भोगायतनं शरीरमिति यथार्थं भवतीत्यर्थः । तत्र स्मृतिवचनं--

नित्यनैमित्तिकं कर्म दुरितक्षयकारकम् ।
ज्ञानं च विमलीकुर्वन् अभ्यासेन तु वेदवित् ।
अभ्यासपक्वविज्ञानः कैवल्यं लभते नरः ।

तत्र सूत्रस्थानवचनं—

[१]अन्नपानं विषाद्रक्षेत् विशेषेण महीपतेः ।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥

इति । तस्माच्छरीरदार्ढ्यकरणहेतुकं भवतीत्यर्थः ॥

 ननु परमात्मा मनोविषयको न भवति, निर्गुणत्वात् निरवयवद्रव्यत्वात् निष्कायकत्वात् कालवत्, मनस आत्मगोचरत्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह-- अन्तरिति ।

 [२]अन्तःकरणधर्मावच्छिन्नविषयावलम्बितदेशकालभावनायोगः सविचारः ॥ ८३ ॥

 परमात्मा विचारणीयः अत एव सवितर्क तर्कसहकृतप्रमाणेन ज्ञातव्यः । तथाहि-- अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत्, इति तर्कसहकृतानुमानेन ज्ञातव्यः । अन्तःकरणधर्मावच्छिन्नविषयावलम्बितत्वं मनोविषयकधर्मत्वं, सर्वदा आत्मानुभवत्वात् । तस्य अवच्छेदकं शरीरं सत् विषयानुभवार्हं भवति । तस्यापि शरीरदार्ढ्यकरणमावश्यकमित्यर्थः । मनःआत्मानं विषयीकरोति । तस्य स्वरूपमा

  1. अष्टाङ्ग. सूत्र VII. 2.
  2. अन्तःकरणविषयावलम्बितदेशकालधर्मावच्छिन्नभावना सविचारः A & B.