पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८२

पुटमेतत् सुपुष्टितम्
150
आयुर्वेदसूत्रे

तत्प्राणादिमन्न भवति, शवशरीरवत् । ईश्वरेच्छाधीना चेष्टा ईश्वरप्रेरितकार्याधीना भवतीत्यत आह-- ईश्वरेति ।

 ईश्वरप्रेरितचेष्टाश्रयं हिताहितकार्योद्देश्यविषयप्रवर्तकचेष्टाश्रयं शरीरम् ॥ ११ ॥

 ईश्वरप्रेरितचेष्टाश्रयं कीदृशं चैतन्यं ? चक्षुर्वद्रूपग्राहकत्वाभावात्, श्रोत्रेन्द्रियवच्छब्दग्राहकत्वाभावात् । तस्माच्चैतन्यस्वरूपं गृहीतुमशक्यमित्याशयं मनसि निधायाह- ईश्वरेति ।

 जन्यशब्दज्ञानं चेतनसद्भावे प्रमाणम् । तथा हि-- तत्तदङ्गाधिष्ठितवर्णाः ताल्वोष्ठपुटव्यापारादिना वर्गात्मकाश्शब्दाः ईश्वरप्रेरितशब्दाः शरीराद्यजन्यत्वे सति जन्यव्यापारहेतुकत्वात् । अङ्कुरादिवत् ।

 अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् । इति ईश्वरसद्भावेऽनुमानं प्रमाणमिति तेन हेतुनोपलभ्यते । बीजभूमिजीवनसामग्र्यां सत्यां कार्यमुत्पद्यत इति न तेनापीश्वरसिद्धिः । अन्वयव्यतिरेकाभ्यां अङ्कुराद्युत्पादकदृष्टसामग्रीसत्त्वात् घटवत् । अङ्कुरादिवद्दृष्टान्तसद्भावे प्रमाणम् । शरीरावच्छेदकं चेष्टाश्रयम् । चेष्टाश्रययोग्याङ्गानि बहूनि सन्ति । सर्वदा चलनप्रसङ्गस्यैवोपस्थितत्वात् । तथा सति अतिप्रसङ्ग एव स्यादित्यस्वरसादाह-- ईश्वरेति ।

 चेष्टास्वरूपं हिताहितप्राप्तिपरिहारार्थस्पन्दनम् । न तु स्पन्दनमात्रम् । तत्सर्वं ईश्वरप्रेरितचेष्टाश्रयम्, तथा सति नातिप्रसङ्गः । यस्य यावक्तर्मानुगुणभाग्यं यदधिष्ठानाधीनं तत्सर्वं अनुभवयोग्यं कर्तुं प्रतिभूर्भवतीत्यर्थः । प्रयोजकत्वात् चेष्टारूपेण ईश्वरसद्भावस्य प्रेरितत्वादित्यर्थः ।