पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८६

पुटमेतत् सुपुष्टितम्
154
आयुर्वेदसूत्रे

 स्रोतोमार्गसिरात्रिशतधराष्टादशदळ[१]पद्मं प्रतीतिगमनागमनचेष्टाश्रयं भवति ॥ १५ ॥

 तास्सिरा मर्मशः स्रोतोमार्गसञ्चरितास्त्रिशतसङ्ख्याकाः । एतादृशचेष्टाश्रयस्य शरीरस्य आत्माधिष्ठितत्वात् तास्सिराः स्रोतोमार्गप्रवाहस्य वेलारूपा भवन्ति । कण्ठप्रदेशस्थिताष्टदळपद्मं सर्ववर्णोच्चारणहेतुभूतपवनप्रवर्तकं तत्प्राणदेवताधारं तस्मिन्नेव कार्यहेतुभूतज्ञाने सति चलनात्मककर्मकरणात् आत्मा ज्ञातुं शक्यत एवेत्यर्थः ।

 ननु चलनात्मकं कर्म ईश्वरप्रेरणाजन्यम् । एतत्कर्म सकर्तृकं कार्यत्वात् इत्यनुमानेन परमात्मा अन्तस्स्थितस्सन् कर्म कुरुते । अत्र ईश्वरप्रयत्नजन्यभावः चलनात्मककर्मभावः । तथा सति अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य तयोरेव दृष्टत्वात् । इत्यनुमानेन ईश्वरसिद्धिरित्यर्थः । गुणत्रयजनकस्वाद्वम्ललवणरसादनेन पवनप्रकोपो निवर्त्यते । तदन्नादनेन शरीरमविकारं सत् चलनात्मकं कर्म कुरुते । तत्तद्विकारे सति तत्तत्कर्म कुरुते । कर्मप्रवर्तकं च गुणत्रयम् । प्रतिपादकस्वाद्वम्लरसविरसादनेन सुष्ठ कर्म कर्तुं न शक्यते । तत्र इडामार्गेण बहिःपवनस्तत्र भेषजं भवति, साध्यरोगाणामपि तन्निवर्तकत्वात् ।

 स्वाद्वम्ललवणरसविरसादनेन उदरामयो जायते । तस्यापि इदमेव भेषजं भवति । पवनदोषे अप्रकोपे सति शरीराङ्गकर्मकरणं सूच्यते । तत्प्रकोपे सति शरीरजन्यकार्याभावो दृश्यते । शरीरादिविकारहेतुभूतान्नादनं तत्तत्कर्महेतुकम् । तस्माद्व्याधिप्रागभावपरिपालनमेव फलीभूतं कार्यमित्यर्थः ।


  1. अष्टदळ-- इति व्याख्यानात् प्रतीयते.