पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८७

पुटमेतत् सुपुष्टितम्
155
चतुर्थप्रश्नः

 ईश्वरस्तु करचरणाद्यवयवी भूत्वा प्रपञ्चोत्पादकं कर्मकुरुते । तथाच श्रुतिः--

 "ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भयां शूद्रोऽजायत । चन्द्रमा मनसो जातः । चक्षोस्सूर्योऽजायत । मुखादिन्द्रश्चाग्निश्च” इति शरीरान्तरात्मव्यतिरिक्तेश्वरसद्भावे प्रमाणम् ।

 अन्तस्स्थितस्सन् कर्म कुरुते । तस्मात्प्रत्यहं पथ्यादनेन भाव्यम् । अन्यथा रोगास्सम्भवन्ति । तेन शरीरिणः करणसामर्थ्याभावात् असाध्य उदरामयः । सिरामार्गेषु बहिःपवनपूरणं उदररोगनिवर्तकं तदुपयोग्यनिवर्तकानिवृत्ते सति पवनपूरणयोगस्य करणस्य निवर्तकत्वात् । आत्ममनस्संयोगो योगः योगार्जकत्वात् । स एव जठरानलप्रदो भवति । उदरामयविषये अग्निप्रज्वलनद्रव्यं निवर्तकम्, योगाग्निजनकसामग्य्रास्तत्र भेषजत्वात् । अजीर्णाज्जातोदरामयनिदानं व्याचष्टे-- स्वाद्विति ।

 स्वाद्वम्ललवणरसजन्यानिलसिरया पूरयन् जघनपद्मविषयं प्रचलति[१]॥ १६ ॥

 स्वादुरसविरसद्रव्यादनादजीर्णादामाम्बुवृद्धिरुदरं जायते ॥ १७ ॥

 स्वादुरसविरसद्रव्यादनं उदरामयहेतुकम्, तदनलेनाजीर्णे जाते सति तेन अम्बुभूताधिक्यप्रवृत्तेर्जातत्वात् तेन मन्दानलो भवति । अधिकानलदोषो भवति । तत्र निदानवचनम्--

"रोगास्सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु ।
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ॥

  1. A & B. कोशेषु इदं दृश्यते. न व्याख्यातमत्र.