पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९०

पुटमेतत् सुपुष्टितम्
158
आयुर्वेदसूत्रे

मानमिति घण्टाघोषेण नराणामुदरामयानां स्वादुरसद्रव्याणि चाविरसद्रव्याणि च आरोग्यकारकाणीति प्रतिपादितानीत्यर्थः ॥

मूलाधारो बलं पुंसां शुक्लं यत्तद्धि जीवितम् ।

 इति वचनानुसारेणापि नियामको ज्ञायते । सर्वजन्तूनां शनैश्शनैरेव रेचयदिति सुत्रात्सम्यक्प्रतिपादितमित्यर्थः ।

 ननु एकैकरसद्रव्येण विरेचनकार्यकरणं कर्तव्यं वा, उत अल्पमल्पं वा दातव्यं वा सर्वमेलनं वा आमानिवृत्तिकरणं किंचित्किंचित्करणं वा ? नाद्यः-- एकैकद्रव्येण विरेचनं कार्यमिति चेत् उक्तविरेचनपदार्थानुद्दिश्य यावत्करणविधिरप्रयोजकं स्यात् । न द्वितीयः--अल्पाल्पकरणेन केवलमामनिवृत्तेरेवाभावात् । शुद्धामनिवृत्तिकरणं उदरामयनिवृत्तिकरणं, उदरामयनिवृत्तिकर्मनिवर्तकत्वस्य चरितार्थत्वात् । न तृतीयः—सर्वपदार्थानां समीकृत्य योगकरणमिति चेत् अतिविरेचनं स्यात्--धातवः स्रावयन्ति । तत्स्रावणेन अतिरिक्ततया दोषप्रकोपस्स्यात् । तस्मादेतावन्मात्रं व्यर्थं स्यात् इत्यस्वरसादाह-- पयनेति ।

 पवनाद्यप्रकोपादग्नेर्बलं पोषयन्क्रियाक्रमः ॥ २०

 पवनाद्यप्रकोपादिति । आदिशब्देन वातपित्तकफदोषाः प्रतिपादिताः । तेषामप्रकोपकरणं फलीभूतार्थस्स्यात् । तस्य अग्निबलदूपकत्वात् येन केन प्रकारेण जठराग्निप्रवर्धकसामग्रीकार्यस्य फलीभूतार्थत्वात् सर्वोदरामयानां जठराग्निप्रवृद्धिकरणं क्रियाक्रमः ॥

 पवनादीनां प्रकोपरूपाभावकार्यस्य प्रायोगिकत्वेन शद्धदोषादिविज्ञानं शुद्धरसादनजन्यमिति तयोर्व्याप्तिं गृहीत्वा भूयो