पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०१

पुटमेतत् सुपुष्टितम्
169
चतुर्थप्रश्नः

शिरःकमलस्थामृतप्रवाहवशात् तद्विरुद्धरसजन्यामपित्तसारसंयोगकार्यं सिराणामेव, तद्रोगलक्षणज्ञानज्ञापकत्वात् । यावत्कालं यावत्सिरासंस्पर्शनं तत्तल्लक्षणलक्षितरोगाभावस्य तत्तन्निदानज्ञापकत्वात् । पृष्ठदेशमारभ्य बीजपार्श्वमेढ्रादधःप्रदेशपद्ममारभ्य कचटतपवर्गाणां तत्तद्बीजजनकपवनादेव एतदधिष्ठितपद्मानि पञ्चदशसङ्ख्याकानि पित्तप्रकोपविकारभावकार्यकारकपित्ताधारकपद्मानि । पित्तप्रकोपसामग्र्यां सत्यां तत्तद्वर्णविकारज्ञापकलक्षणलक्षितानि तत्तन्निदानज्ञापकानि । आोष्ठप्रदेशपर्यन्तं पञ्चदशाधारभूतपद्मस्थानाधिष्ठितपित्तं तत्तल्लक्षणानि तत्रैवाविर्भूतानीत्यर्थः ।

 इतःपरं कफपाण्डुशोभविसर्पामयचिन्हानि प्रकाश्यन्ते-- श्वासेति ।

 श्वासखासनासाक्षि[१]पक्ष्मकर्णकपोलदन्ताति[२]पीनसशिरस्तोदनं पाण्डुशोभ[३]विसर्पामयलक्षणम् ॥ ३० ॥

 कफप्रदेशे हृदि अमपित्तातिसारस्य त्रिंशत्सिरावृतहृत्करमलस्थितत्वात् तत्सिरागतपवनविगत्या श्वासखासौ भवेताम् । अक्षिपक्ष्मकर्णकपोलदन्तानां मलाधिक्यं वेदनातिप्रतीतत्वात् । एतल्लक्षणाणि कफप्रकोपजन्यामयरूपपाण्डुशोभविसर्पामयलक्षणानि तत्तन्निदानेन ज्ञाप्यन्ते ।

 ननु पवनपित्तकफप्रकोपेन पवनपित्तकफरोगा इति प्रतिपाद्यते । तच्चिन्त्यम् । रसविरसान्नादनं वा शुद्धरसवद्द्रव्याधि

 AYURVEDA
22
 


  1. श्वासकासाक्षि--A & B
  2. दन्तातिमिर A & B
  3. विसर्प्यामयलक्षणम्--B.