पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०२

पुटमेतत् सुपुष्टितम्
170
आयुर्वेदसूत्रे

क्यान्नादनं वा तदाशयस्थपवनवेगनिरोधनं वा रोगहेतुकमिति वक्तव्यम् । तथा सति सर्वशरीरसंचरितपवनप्रकोपाः विरसविषसंपर्कदोषजाः तत्पवनस्य शरीरव्याप्यसंचारकर्मगुणवद्द्रव्यत्वात् । तद्विरसविषसंपर्कवशात् पवनप्रकोपो भवतु । कफपित्तयो पङ्गुत्वादेव तयोर्विरसविषसंसर्गस्य वक्तुमशक्यत्वात् । तद्वत् अयं कफरोगः, अयं पित्तरोगः इति कथं ज्ञायत इत्यस्वरसादाह--बाह्येति ।

 बाह्यविषग्रस्तवद्धातुदूषकाः[१] ॥ ३१ ॥

 सर्पादिना दष्टस्य विषग्रस्तस्य दृष्टत्वात् । तयोः पङ्गुत्वादेव तद्विषसंसर्गाभावेपि सर्वशरीरव्याप्यपवनवच्छरीरस्य पित्तकफयोः शरीरान्तःपातित्वेन विषसंस्पृष्टपवनसंसर्गवशात् दोषत्रयप्रकोपो भविष्यति । तद्वदत्रापि पवनव्याप्यविषरसदष्टपवनसंयोगस्य तयोर्विद्यमानत्वात् अयं पित्तदोषः अयं कफदोष इति वक्तुं शक्यते । तर्हि रोगमात्रस्य पवनप्रकोपजन्यत्वात् सर्वरोगाणां पवनप्रकोपाधीनत्वात् सर्वे रोगाः पचनजन्या एव स्युः । तस्मात्कफपित्तयोः पृथक्तयाऽवच्छेदकतासंभवात् तथा सूत्रस्थाने प्रतिपादितं--

विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात् ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥

 एतद्वचनानुसारेण पवनस्यैव सर्वरोगप्राधान्यं प्रतीतमिति चेत् न । तत्सर्वशरीरव्याप्यत्वेऽपि धातुपोषकं न भवति । मन्दानिलसन्धुक्षणकर्मगुणवद्द्रव्यत्वात् । अनलमन्दत्वनिवर्तकसन्धुक्षणगुणवद्द्रव्यस्य धातुपोषकत्वाभावात् । पित्तकलाया एव जठरानलत्वात् पित्तप्रकोपे सति अनलो मन्दो भवति । तेन कफप्रकोप

  1. A. B. कोशयोरेतन्न दृश्यते.