पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०९

पुटमेतत् सुपुष्टितम्
177
चतुर्थप्रश्नः

र्गवशात् पवनामयाः प्रवर्धन्ते । तज्जनकामशोषे सति तन्निवर्तते । तावद्विरसादनादजीर्णादामप्रवृद्धौ सत्यां रसासृङ्मांसगतसिरासंस्पर्शनाद्यत्र पवनविकारो जायते स आमपित्तसारः आमाशयं प्रविश्य हृत्कमलप्रवेशनात् विषसंसर्गवत् यावद्रोगहेतुकं तावद्धात्वन्तर्गतसिरासंस्पर्शनात् तद्धातून्सन्दूष्य रसासृङ्मांसभेदोधातवः दूषितास्सन्तः क्रमात्पाण्डुशोफविसर्पामयाः प्रवर्धन्ते । सुतरां मेदोधातुविकारे सति कुष्ठं भवति । स आमपित्तसारः रसासृङ्मांसधातून्सन्दूष्य मेदोधातुस्थितत्वात् तावद्धातुसारस्य बहिःप्रदर्शनमेव कुष्ठरोगकारणं भवतीत्यर्थः ।

 ननु त्रिसाराधिक्यादनजातरोगास्तु अजीर्णरोगजन्यामया बहवस्सन्ति । तत्कार्यभेदस्य दृष्टंत्वात् कारणभेदो वक्तव्यः। आमपित्तसारस्य एकरूपत्वात् शोफपाण्डुविसर्पमयानां धातुदूषककार्यस्य एकत्वात् तत्र वक्तुं शक्यते । तत्कार्यव्यतिरिक्तकुष्ठरोगकार्यस्य भिन्नत्वादित्याशयं मनसि निधाय कुष्ठरोगागमहेतुं वर्णयति--पूर्वस्मादिति ।

 [१]पूर्वस्माद्द्विगुणं पृथुतया भाति[२] ॥ ३७॥

 पूर्वधातुभ्यः स्थूलत्वं द्विगुणंप्रतीयते । न च तन्तुबद्धानुसारस्रावितरोगस्वरूपत्वात् सिराशौण्डिल्यतया पृथुत्वं भासते । आमपित्तसारस्य यावत्सिरासंस्पर्शनं तत्तद्रोगाणां तत्तत्सिरासंस्पर्शनं कारणं भवति । तथा सति कारणवैचित्र्यात् कार्यवैचित्र्यं प्रतीयते । तन्तुगतरूपानुगतरूपानुविचित्ररूपवत्त्वं यावत्तन्तु

 AYURVEDA
23
 


  1. एतत्सूत्रात्प्राक् "पवनप्रकोपहेतुकत्रिरसजातरसासृङ्मांसं भगचयप्रदेशगतं भवति" इति A.B.कोशयोरधिकः पाठः.
  2. एतत्सूत्रं B कोशे नास्ति.