पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१०

पुटमेतत् सुपुष्टितम्
178
आयुर्वेदसूत्रे

गतरूपानुसारिवैचित्र्यं तज्जन्यपटवैचित्र्यं करोति । कारणगुणा हि कार्यगुणानारभन्ते । यावत्सिरासंस्पर्शनं तावत्सिराधारकपद्मगतविकारकारकं, तदन्यरोगकार्यहेतुकत्वे सति तद्धेतुकत्वात् यन्नैवं तन्नैवमिति । पाण्डुशोभविसर्पकुष्ठरक्तवातामयानां आमपित्तरूपविषसंसर्गविशिष्टसिराणां नानारुपकार्यजनकत्वं सूच्यते ।

 आमपित्तसारस्य एकत्वेऽपि तज्जनकद्रव्याधिक्यं कारणतावच्छेदकं भवतीत्यर्थः ।

 ननु सर्वशरीरव्याप्यपवनप्रकोपे सति तत्संचारयोग्यधातुशोषो जायते । शोषणैककार्यकारकरूक्षगुणद्रव्यत्वात् अनन्तावच्छेदकं रूक्षगुणवत्त्वधातुशोषककार्यकारकत्वं प्रथमत एव प्रति प्रतिपादितम् ।

तत्र रूक्षो लघुश्शीतः खरस्सूक्ष्मश्चलोऽनिलः ॥ इति.

 तस्मात्पवनविकारमात्रेण आमपित्तरससारस्य एकदेशस्थितत्वात् सर्वधातुशोषणं कर्तुं न शक्यत इत्याशयं मनसि निधाय पवनविकारं प्रतिपादयति--त्रिसहस्रेति ।

 त्रिसहस्रसिराहेतुकं मधुरीभूतं ज्वलयति[१] ॥ ३८ ॥

 धातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनजातपवनविकारकार्यहेतुत्वात् स्वाद्वम्ललवणरसवद्द्रव्यधातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनं पवनरोगप्रागभावपरिपालनकारकास्तास्सिरास्त्रिसहस्रसंख्याकाः पादपद्माधारकाः ता



  1. 'ज्वरति' इति A. कोशे.