पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१२

पुटमेतत् सुपुष्टितम्
180
आयुर्वेदसूत्रे

र्धकं इक्षुकाण्डादिद्रव्यजन्यरसवद्द्रव्यत्वात् । रसासृग्धात्वभिवर्धकस्स्थावरनिष्ठस्वादुरसो भवतीत्यर्थः ।

 स्थावरनिष्ठाम्लरसस्य प्रयोजनमाह--आम्लेति ।

 आम्लरसादनं मांसधातुप्रदं भवति ॥ ४१ ॥

 स्थावराणां लवणरसस्यप्रयोजनमाह--लवणेति ।

 लवणरसो मे[१]दोधातुप्रदः ॥ ४२ ॥

 स्थावराणां लवणरसः जङ्गमशरीराणां मेदोधातुप्रवर्धको भवतीत्यर्थः ।

 ननु स्थावराणां स्वादुरसः पवनप्रकोपकारकः । जङ्गमशरीराणां स्वादुरसः पवनप्रकोपहारक इति भेदकथनं कथं वक्तुं शक्यते । तद्वदेव षड्रसानां गुणप्रदानं भेदद्रव्यस्यैव वक्तुं शक्यत्वात् स्थावराणां गुणप्रदानं षड्रसानां तत्तज्जात्यवच्छेदेन भेद एव स्यादित्यस्वरसादाह--आद्येति ।

 आद्यद्विधातुसारं जङ्घापद्महेतुकम् ॥ ४३ ॥

 तिक्तरसाभिवर्धितं मेदोधात्वन्तस्स्थितदशदळपद्मं कण्ठप्रदेशगतम् । सहस्रसिरादागतामृतं तस्य पोषकम् । आद्य इति--स्वादुरसवद्द्रव्यम् । द्वे इति-- क्ष्माम्भसोरेकीभूताधिकजातद्रव्यगुणसारं स्वादुरसवद्द्रव्यं तदेव निवर्तकं भवतीतियत् तत्कथं ज्ञातुं शक्यते ? शुक्लधातुपोषकस्वादुरसं आद्यद्विधातुरसासृग्धातुदूष्यं भवति । जङ्गमद्रव्यनिष्ठस्वादुरसं सर्वधातुपोषकम् ।

तथा गव्यं पयः गव्यं घृतं रसासृग्धातुविकारानिवर्त्यतद्धातुपोष्यं भवति । तत्स्वादुरसस्य सर्वशरीरपुष्टिकरत्वात् अनिल



  1. अस्थिधातु--इति A कोशे.