पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१८

पुटमेतत् सुपुष्टितम्
186
आयुर्वेदसूत्रे

त्मकाः, पुराणादौ तथा प्रतिपादितत्वात् । अन्ययुगादौ प्राणादिपञ्चवायूनां अस्थिगतत्वात् तत्काले शब्दा वर्णात्मका भवन्ति । सर्वशरीराणां सात्मकत्वादेव तथा वक्तुं शक्यते । जीवच्छरीरं सात्मकं प्राणादिमत्वात् इत्यनुमानेन प्रमाणेन यानि यानि शरीराणि सात्मकानि तानि सर्वाणि प्राणात्मकान्येव । कलियुगकालग्रस्तशरीरादिगतप्राणादिवायवः रसासृग्धातुगताः । तदन्ययुगकालग्रस्तशरीराधिष्ठितप्राणादिवायवः अस्थिगता भवन्ति । एतद्युगकालग्रस्तानि शरीराणि अधर्मात्मकानीत्यत्र अधर्मत्वमुपाधिः ।

 ननु शरीरत्वावच्छेदेन सर्वशरीराणां प्राणादिमत्त्वादेव शरीरत्वावच्छेदकस्य स्थावराणामपि सत्त्वात् तेषामपि शब्दोच्चारणत्वप्रसंग इत्यस्वरसादाह--षडिति ।

 षट्कमलानामादिभूतं मूलाधारकम्[१] ॥ ४९ ॥

 षट्कमलाधिष्ठितशरीरत्वं येषामस्ति तेषां शब्दोच्चारणेऽपि सामर्थ्यमस्ति । तथा न स्थावराणां पादपद्मावच्छेदकं भवति । जङ्गमशरीराणां शिरःकमलस्थामृतसारवत्पोषकत्वस्य तेषामवच्छेदकत्वात् । तत्सहस्रारपद्माधिष्ठिशीर्षवत्त्वात् शिरःकमलस्थामृतवत्त्वं शरीरपोषकम् । तत्स्थावरशरीराः पादपा इति । तस्मात्तेषां मूलाधारपद्मं षट्कमलात्मकं न भवति । सर्वेषां शरीरत्वावच्छेदकत्वस्य साधारणत्वेऽपि येषां शरीराणां मूलाधारपद्मं षट्कमलात्मकं तेषां शरीराणां शब्दोच्चारणत्वस्य योग्यत्वादित्यर्थः ।

 ननु स्थावराणामपि मूलाधारपद्मं दशदळात्मकं तिक्तोषणरसात्मकं तदेव । तदेव शिरःकमलस्थं सन्मांसमेदोधात्वात्मकम् । तत्र मनुष्याणां सहस्रारपद्मं तत्तच्छिरसि प्रतिभाति । स्थावरा

  1. नैतत् B. कोशे दृश्यते.