पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१९

पुटमेतत् सुपुष्टितम्
187
चतुर्थप्रश्नः

णामपि अग्रशाखं तदेव । शिरश्शिखामूलात्मकत्वात् शाखाग्राणि प्रवर्तन्ते । षट्कमलानामादिभूतमूलाधारकत्वलक्षणस्य स्थावराणामपि सत्त्वादित्यस्वरसादाह--तिक्तेति ।

 तिक्तोषणरसप्रदानजन्यमेदोमज्जाधारकदशदलपद्मं सहस्रसिरादागतामृतं तत्र सिञ्चति[१] ॥ ५० ॥

 शाखाङ्कुरादयः तिक्तोषणरसप्राधान्येन जायन्ते । अङ्कुरप्रादुर्भावसमये तिक्तरसो वा ऊषणरसो वा यावदुचितसारः प्रतिभाति, तत्तदङ्कुरस्य मेदोमज्जाधारकत्वात् अङ्कुरादिकमेव दशदळपद्मं, मूलाधारकं च तदेव भवति, उभयोरपि कदाचिद्बीजावापकत्वस्य दृश्यत्वादित्यर्थः ।

 ननु मनुष्याणामिव कुण्डलिनीशक्तेरभावात् इडापिङ्गलानुसरितत्वात् श्वासोच्छ्वासाभावेन तद्वशादेव अमृतावसेचनं शाखिशरीरस्य अयोग्यमित्यस्वरसादाह-- इडेति ।

 इडापिङ्गलागतामृतं सिञ्चति[२] ॥ ५१ ॥

 तत्पत्रचलनमेव शाखिनां श्वासोच्छ्वासौ भवतः । शाखाग्रं दशदळपद्मात्मकं सुरूपत्वात् । सुलावण्यात्मकत्वात् । चक्षुरिन्द्रियविषयसुखज्ञानानुभवरूपविषयकत्वात् । तच्छाखाग्रवर्तिदशदळपद्मं चक्षुरिन्द्रियविषयकं सुखानुभवविषयस्वरूपत्वात् । शाखिनां तत्पद्ममेव पोषकं भवतीत्यर्थः ।

 ननु शाखाग्राणि सुरूपाणि सुलावण्यानि सुकुमाराणि, चक्षुःप्रतीतिविषयसुखानुभवविषयहेतुभूतत्वात् इति यदुक्तं तच्चिन्त्यं,

  1. नैतत् B. कोशे दृश्यते.
  2. नैतत् A. & B कोशयोर्दृश्यते.