पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२१

पुटमेतत् सुपुष्टितम्
189
चतुर्थप्रश्नः

 "यज्ञास्य शिरोऽच्छिद्यत । ते देवावश्विनाब्रुवन् भिषजौवै स्थ इमं यज्ञस्य शिर प्रतिधत्तम्" इत्यनुवाकस्य तात्पर्यं शस्त्रधारणं ब्राह्मणानामयोग्यं, इयं शस्त्रचिकित्सा यावद्ब्राह्मणानामयोग्येति चिकित्साभेदे निषेधितम् । तस्मात् शस्त्र चिकित्सा न कार्या । शूद्रैरेव कारयितव्या । तत्रापि तत्तच्छास्त्रप्रतिपादितसिरादिभेदं विज्ञाय शूद्रैरेव कारयितव्या इत्यस्य य उपदेष्टा स एव कर्ता । अस्यापि सैव श्रुतिः प्रतिपादिका--"तयोस्त्रेधा भैषज्यं विन्यदधुरग्नौ तृतीयं अप्सु तृतीयं ब्राह्मणे तृतीयम् । तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात्" इति विधेः विद्यमानत्वात् । एवमागमशास्त्रे प्रतिपादितम्--

 दीर्घं तीव्रामयानां भिषगिव कौशलं नो धातुमायातु शौरिः ।" आपद्ग्रस्तानां त्रातुं चिकित्सा कार्येत्यर्थः । अत एव सर्वसुखसाधकमित्युक्तम् ।

 ननु यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थमुपकारिका भवति सा सर्वफलप्रदायिकेति वक्तुं शक्यते । अत्र तु चिकित्साकार्यप्रतिपादकोपकारकद्रव्यत्वादेव एतेषां शाखिनां चतुर्विधपुरुषार्थफलप्रदानप्रतिपादकत्वं कथं स्यादित्यस्वरसादाह --प्रकृतीति ।

 प्रकृतिपुरुषयोरैक्यं भवति ॥ ५३ ॥

 सर्वदा प्रकृतिपुरुषौ फलोपकारकौ । सर्वेषां प्राणदौ भवतः । तथा च श्रुतिः--"अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।" इति श्रुतिरेवात्र प्रमाणम् ।