पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३१

पुटमेतत् सुपुष्टितम्
199
चतुर्थप्रश्नः

 ननु "इदं स्त्रीवचनं, इदं पुरुषवचनं” इति तयोर्भेदप्रतीतिः । ताल्वोष्ठपुटव्यापाराघटनात् जातपवनः स्मेरास्यदोषगतिजातशब्दः स्त्रीणां योनिविवरं प्रविश्य स्त्रीजातिज्ञापकवचनं च । जङ्घामेढ्रप्रदेशपद्मगतसरन्ध्रभागस्य अल्पद्वारत्वात् पुरुषलिङ्गस्थितपद्मविवरमभ्युपेत्य वर्णात्मकशब्दः ताल्वोष्ठपुटव्यापाराघटनाज्जातपवनभेदस्य सर्वेषामपि समानत्वात् तत्सामग्रीविशिष्टस्त्रीजनोच्चारितशब्दानां अजाधिक्यस्वरात्मकत्वात् शब्दा उपलभ्यन्ते । तद्वदेव पुरुषजन्यताल्वोष्ठपुटव्यापारदिकस्य समानत्वेऽपि स्त्रीजनोच्चारितशब्दः पुरुषजनोच्चारितशब्दाद्भिन्न इति कथमुपलभ्यते ? शब्दज्ञानसामग्र्याः समानत्वादित्याशयं मनसि निधायाह--पृष्ठेति ।

 पृष्ठजङ्घाशिश्नोपस्थदेशभेदात्स्वरादयः प्रभवन्ति

 जङ्घाशिश्नपद्मप्रदेशं सम्प्राप्य शब्दः प्रभवति । इत्येतत्तु विविच्य ज्ञाप्यते--जङ्घाशिश्नप्रदेशगतिसरन्ध्रभागमभ्युपेत्य बहिर्निस्सरन् सन् हलादिवर्णाधिक्यबोधकतया वर्णात्मकशब्दश्श्रूयते । अयं पुरुषशब्द इति ज्ञातुं शक्यते । एवं स्त्रीजनानां ताल्वोष्ठपुटव्यापारसामग्र्यां स्मेरास्यदोषगतिजातशब्दः कर्णप्रदेशविवरभागमभ्युपेत्य पृष्ठोपस्थपद्मगतसिरारन्ध्रभागमुपेत्य तस्या योनिविवराधारात् बहिर्निर्गतस्सन् अच्स्वरादिवर्णाधिकतया शब्दश्श्रूयते । स शब्दस्स्त्रीजनोच्चारितशब्द इति भेदः प्रतीयते। तत्तज्जातिविशिष्टशरीरा बहवस्सन्ति । तत्तच्छरीरावच्छेदकभेदात् वर्णभेदः । तत्तत्पृष्ठयोनिपद्मप्रदेशगतसरन्ध्रदेशा एव तत्तद्वर्णभेदज्ञापका इति वक्तव्यम् । एवं पुरुषजनानामपि भेदो ज्ञातव्यः।