पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४३

पुटमेतत् सुपुष्टितम्
211
पञ्चमप्रश्नः

 तच्छान्तिरौषधैर्दानैः जपहोमार्चनादिभिः । इति ।
अस्मिन्युगे बहुसामग्रीभिरवश्यं भाव्यमित्यर्थः ॥

 ननु इदं द्रव्यं एतद्द्रव्यादनजातरोगनिवर्तकमिति, अयं रोगः तन्निवर्तककैद्रव्यसाध्यः तन्निवर्तकैकद्रव्यवत्त्वात् इत्यनुमानविधया प्रामाण्ये स्थिते सति तत्र प्रजायते । सा प्रमा समर्थप्रवृत्तिसाधिकेति तयोः कार्यकारणभावं निश्चित्य तत्र प्रवर्तते । तत्र व्याधिनिवर्तकद्रव्यसन्देहे सति तन्निवृत्तिकार्यविषये प्रवृत्तेरभावात्, तयोर्व्याप्तिग्रहस्य सुतरामशक्यत्वात्, अयं रोगनिवर्तक इति निश्चयज्ञाने सति तत्र प्रवृत्तिः, निश्चितार्थे संशयाभावात्, तन्निश्चयस्य तद्धेतुत्वात् । एकपदार्थस्य तन्निवर्तकत्वसन्देहे सति पदार्थान्तरसंग्रहप्रवृत्तौ अतिप्रसंगस्स्यादित्यस्वरसादाह--रसादीति ।

 रसादिद्रव्यसारजा[१]स्सकलामयनिवर्तकाः ॥ १३

 रसासृङ्मांसमेदोमज्जाशुक्लादिधातूनां विकारे जाते सति तद्द्रव्यं तन्निवर्तकमिति निश्चित्य तत्र विरेचनविधिः कार्य इति ज्ञाने जाते सति हरीतकीप्रयोगविधिः क्रियते । तादृशहरीतक्यदनेन तदागतमलनिस्सरणं जायते । तत्र तन्निश्चये स्पष्टे त्वरितव्याप्तिग्रहस्य सुकरत्वात् । तत्र हरीतकीत्युपलक्षणम् । तद्रसगुणविशिष्टद्रव्यजातिमात्रमेव विवक्षितम् । विकारग्रस्तदोषाणां यावद्धातुसंचारित्वं यत्र प्रतीयते तावद्धातुगतरोगनिवृत्त्यर्थं अनेकद्रव्याणां योग्ययोगकरणं विधिरिति तत्र विधीयते । तन्निवर्तकयावद्द्रव्येण रसवद्द्रव्यादनं विवक्षितम् । तन्निवर्तकद्रव्यमात्रस्य तन्निवर्तकत्वावच्छेदकत्वमिति तयोर्व्याप्तिग्रहणानन्तरं समर्थप्रवृ

  1. रसातिरसविरसातिद्रव्यसारजाः- A.